________________
६]
सिद्धान्तकौमुदी [अव्ययीभाव. १३४१)। जीमूतस्येव । ६५१ अव्ययीभावः । (२-१-५) अधिकारोऽयम्। ६५२ अव्ययं विभक्तिसमीपसमृद्धिव्यूद्धयर्थाभावात्र यासंप्रतिशब्दप्रादुर्भावपश्चाधथानुपूर्व्ययोगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु । (२१-६) 'अव्ययम्' इति योगो विभज्यते । अव्ययं समर्थन सह समस्यते, सोऽव्ययीभावः । ६५३ प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३) इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु सम् सस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाविशेषात् समासशास्त्रे प्रथ मानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्वनिपातः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिरस्वरेणान्तोदात्तत्वमेव, न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययी. भावस्तु न, 'तत्र तस्येव' इति निर्देशात् । काचित्कश्चायं समार : । अत एव बचा एव पदपाठे अवगृह्णन्ति, याजुषास्तु भिन्ने एवं पदे पठन्ति 'उद्वाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च संगच्छन्ते । 'हरीतकी भुड्क्ष्व राजन् मातेव हितकारिणीम् ।' इत्यत्र तु मातरमिवेति भवितव्यम् । 'तिङ्समानाधिकरणे प्रथा' 'अभिहिते प्रथम' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्ये। च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमायाः मातृसदृशीमित्यर्थे असा त्वादिल्यास्तां तावत् । अव्ययीभावः । अधिकारोऽमिति । एकसंज्ञाधिकारेऽपि अनया संज्ञया समाससंज्ञा न वाध्यत इति 'प्राकडारात्-' इत्यत्रोक्तम् । अव्ययं विभक्ति । विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह-अव्ययमिति योगी विभज्यत इति । अत्र ‘समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीया ततया विपरिणम्यते। समास इति अव्ययीभाव इति चाधिकृतम् । तदाह-अव्ययं समर्थनेति । सोऽव्ययीभाव इति । स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः । तथा च दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा । तस्य समासस्याव्ययीभावसंज्ञा च सिद्धा । तथा च समासत्वात् प्रातिपदिकत्वे सुपो धातु-' इति सुब्लुकि सति दिशा अप इति स्थितम् । अत्र उपसर्जनकार्य वक्ष्यन्नुपस निसंज्ञामाह-प्रथमा. निर्दिष्टम् । ननु समासे प्रथमानिर्दिष्टमुपसर्जनम् इति व्या' याने असंभवः, समासे ऽपि समासादुत्पन्नस्य सोः अव्ययात्-'इति लुग् भवत्येव,अनुपसनने तदन्तस्याप्यव्ययत्वादिति बोध्यम् । अव्ययं विभक्ति । विभक्तिरिह कारकर्शा कः । विभज्यते अनया प्रातिपदिकार्थ इति व्युत्पत्तेः । अत एव वक्ष्यति--विभक्त्यादिषु विद्यमानमव्ययमिति । प्रथमानिर्दिष्टम् । अत्र समासपदं तद्विधायके लार्भा गकम् । अन्यथा चिकी