________________
प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२७ (५-४-८४ ) अप्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वा भश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम्-द्विस्तावती त्रिस्तावती रज्जुः । ६५३ उपसर्गादध्वनः । (५-४-८५) प्रगतोऽध्वानं प्राध्वो रथः । ६५४ न पूजनात् । (५-४-६६) पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । 'स्वतिभ्यामेव' (वा ३३४६) नेह-परमराजः। चेति । 'यस्य चायामः' इत्यव्ययीभावसमासः । तथा च गोयसदृशदैर्ध्यकं यानमित्यर्थः फलतीति भावः । द्विस्तावा । यावती प्रकृताविति । यतः अङ्गकलाप. स्यातिदेशः सा प्रकृतिः । अश्वमेधस्य प्रकृतिरग्निष्टोमः, तत्रानाताङ्गकलापानामश्वमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रेषु 'सर्वसोमक्रतूनामग्निष्टोमः प्रकृतिः' इति । तस्मिन् अग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र च 'त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची षट्त्रिंशत् प्राची चतुर्विंशतिः पुरस्तात्तिरश्ची' इति प्रकृती वेदिपरिमाणमुक्तम् । अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु 'अष्टाविंशत्यूनं पदसहस्रं महावेदिः' इति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथा च प्रकृतौ अग्निष्टोमे यावती वेदिः तदपेक्षया द्विगुणा त्रिगुणा वा अश्वमेधादौ वेदिरस्ति, तत्र श्राश्वमेधिकवेद्यामभिधेयायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्व्यः सुच्' इति द्विशब्दात् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम् । तत् प्राकृतं परिमाणम् अस्या अस्तीति तावती। प्राकृतपरिमाणति यावत् । द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः तावतीति विग्रहः । द्विरावृत्तं प्राकृतं यत् परिमाणं तद्वत्याश्वमेधिकी वेदिरित्यर्थः । अत एव निपातनात् समासः, अच्प्रत्ययः, तावतीशब्दस्य 'भस्याढे-' इति पुंवत्त्वे डीपो निवृत्ती प्रत्ययस्याडित्त्वेऽपि प्रकृतेर्नान्तत्वाभावेऽपि टिलोपः । द्विस्तावती त्रिस्तावती रज्जुरिति । अत्र वेद्यामप्रवृत्तेः अच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः । तथा च प्रत्युदाहरणे द्विरिति भिन्नं पदम् । उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन् शब्दः तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः-' इति समासादच् । 'नस्तद्धिते' इति टिलोपः । न पूजनात् । परेभ्य इत्यध्याहार्यम् । समासान्ता इति पूर्वसूत्रमनुवर्तते । तदाह-पूजनार्थादिति । 'पूजायां खतिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्योदाहरति-सुराजेति । सु शोभनो राजेति प्रादिसमासः । अतिराजेति । पूज्यो राजेत्यर्थः । उभयत्रापि 'राजाहस्सखिभ्यः-' इति टच् न भवति । स्वतिभ्यामेवेति । खतिभ्यां परो यो राजन् शब्दः तस्मादेवेत्यर्थः, तथा वार्तिकाविग्रहः । परेणानधिगम्यमित्यर्थः । इत्यतः प्रागिति । 'प्राग्बहुव्रीहिग्रहणं कर्तव्यम्