________________
२२८] सिद्धान्तकौमुदी। [सर्वसमासपूजनात् किम्-गामतिक्रान्तोऽतिगवः । 'बहुव्रीही सक्थ्यषणोः-' (सू ८५२) इत्यतः प्रागेवायं निषेधः । नेह-सुसक्थः, स्वक्षः । ६५५ किमः क्षेपे । (५-४-७०) क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः। कुत्सितो राजा किंराजा । किंसखा । किंगौः । चेपे किम्-किंराजः, किंसखः, किंगवः । १५६ नञस्तत्पुरुषात् । (५-४-७१) समासान्तो न । अराजा । असखा । तत्पुरुषात् किम्-मधुरं शकटम् । ६५७ पथो विभाषा । (५-४-७२) नम्पूर्वात्पथो वा समासान्तः । अपथम् , अपन्थाः । तत्पुरुषाद् इत्येव, भपथो देशः, अपथं वर्तते ।
इति सर्वसमासान्तप्रकरणम् ।
दिति भावः । नेहेति । निषेध इति शेषः। परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः-' इति समासः । अतेः पूजनार्थकत्वाभावाद् न टचो निषेधः । एवं परभराज इत्यत्रापि । इत्यतः प्रागिति । 'प्राग्बहुव्रीहिग्रहणं कर्तव्यम्' इति वार्तिकार्थसंग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु शोभने सक्थिनी यस्य, सु शोभने अक्षिणी यस्येति च विग्रहः । 'बहुव्रीहौ सक्थ्यक्ष्णो:-' इति षच् । किमः क्षेपे। किंराजा । किं सखेति । इह 'राजाहस्सखिभ्यः' इति टच न भवति । 'किं क्षेये' इति समासः । किंराजः किंसख इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः । निन्दानवगमाद् न टचो निषेधः । नत्रस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्टे- समासान्तो नेति। नम्पूर्वपदात्तत्पुरुषात् समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् 'ऋक्पू:.' इति समासान्तस्य न निषेधः । पथो विभाषा । पथ इति । पथिन्शब्दादित्यर्थः । अपथमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः । 'ऋक्पू:-' इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः । ‘पथः संख्याव्ययादेः' इति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवेत्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वाद् 'ऋक्पू:-' इत्यप्रत्ययस्य पाक्षिको इति वार्तिकोक्लेरिति भावः । किमः क्षेपे । क्षेपग्रहणमिह शक्यमवक्तम् , प्रतिपदोक्तपरिभाषया 'किं क्षेपे' इति विहितसमासस्यैव ग्रहणात् । किंराज इत्यादि । किमत्र प्रश्ने । षष्टीसमासः कर्मधारयो वा । नञस्तत्पुरुषात् । 'नत्रः' इति षष्ठी, नमः संबन्धी यस्तत्पुरुषो नअवयवकस्तस्मादित्यर्थः । अपथमिति । 'नस्तद्धिते' इति