________________
प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता।
[२२६
अथालुक्समासप्रकरणम् । २४ । ६५८ अलुगुत्तरपदे । (६-३-१) अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्वापादसमाप्तेः । ६५६ पञ्चम्याः स्तोकादिभ्यः। (६-३-२) एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्वोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छेभ्यः । उत्तरन निषेधः । अपथं वर्तत इति । अर्थाभावेऽव्ययीभावः । अतत्पुरुषत्वाद् 'ऋक्पू:-' इत्यप्रत्ययस्य न पाक्षिको निषेधः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां सर्वसमासान्तप्रकरणं समाप्तम् ।
अथालुक्समासो निरूप्यते-अलगुत्तरपदे । नायं विधिः, राजपुरुष इत्यादावतिप्रसङ्गात् , ‘पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च । किंतु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्यत आह-अलुगधिकारः प्रागानङ इति । 'आनवृतः-' इत्यतः प्रागित्यर्थः । उत्तरपदेति । षष्ठस्य तृतीये पादे श्राद्यमिदं सूत्रम् । इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोत्तरपदाधिकारनियमे भाष्यमेव प्रमाणम् । पञ्चम्याः स्तोकादिभ्यः। एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्याः 'सुपो धातु-' इति लुङ् न स्यादित्यर्थः । उत्तरपद इति । उत्तरशब्दः समासचरमावयवे रूढः, पदे इत्येव सिद्ध उत्तरग्रह. णात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः । 'स्तोकान्तिकदूरार्थकृच्छ्राणि क्लेन' टिलोपः । 'अपथं नपुंसकम्' इति क्लीबत्वम् । अपथं वर्तत इति । अर्थाभावेऽव्ययीभावः ।
इति तत्त्वबोधिन्यां सकलसमाससाधारणसमासान्तप्रकरणम् ।
अलुक् स्यादिति । प्रसज्यप्रतिषेधोऽयम् । 'सुपो धातु-' इत्यादिना प्राप्तो लुङ् न भवतीत्यर्थः । स्तोकान्मुक्त इति । समासप्रयोजनमैकपद्यमैकवर्य विशेषणयोगाभावश्च । किंच 'स्तोकान्मुक्तस्यापत्यं स्तौकान्मुक्तिः' 'स्तोकान्मुक्तायाः स्तौकान्मुक्तेयः' इति समुदायात्तद्धितोत्पत्तिरपि प्रयोजनम् । न च प्राथमिकसामासिकलुको निषेधेन चरितार्थत्वाद्बाह्यस्तद्धितनिमित्तो लुग् दुरि इति शङ्कयम् , 'सुपो धातु-' इति शास्त्रस्यैकत्वादविशेषेण लुग्द्वयस्यापि निषेधाभ्युपगमात् । इह 'स्तोकान्तिक' इति समासशास्त्रपठिता एव स्तोकादयो गृह्यन्ते न तु 'करणे च स्तोकाल्पकृच्छ-'