________________
२३० ]
सिद्धान्तकौमुदी। [अलुक्समासपदे किम्-निष्क्रान्तः स्तोकाशितोकः । 'ब्राह्मणाच्छंसिन उपसंख्यानम्' (वा ३८७८) ब्राह्मणे विहितानि शस्त्राण्युपचाराद् ब्राह्मणानि, तानि शंसतीति ब्राह्मणाच्छंसी ऋस्विग्विशेषः । द्वितीयार्थे पञ्चमी उपसंख्यानादेव । ६६० प्रोजःसहोऽम्भस्तमसस्तृतीयायाः। (६-३-३) ओजसाकृतमित्यादि । 'अञ्जस इति समासः । अत्र पञ्चम्या अलुक् । एवमिति । श्रादिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः। अन्तिकादागतः, अभ्याशादागतः, दूरादागतः विप्रकृष्टादागतः, कृच्छ्रादागतः । निस्स्तोक इति । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाभावात् पञ्चम्या अलुङ् न । स्तोकान्मुक्त इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात् स्तोकान्मुक्त इति विशेषणयोगाभावश्च । किंच, स्तोकान्मुक्तस्यापत्यं स्तौकान्मुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्तौ स्तोकान्मुक्ता इति द्विबहुवचनान्तैः न समासः, अनभिधानादिति भाष्ये स्पष्टम् । ब्राह्मणाच्छंसिन उपसंख्यानमिति । पञ्चम्या अलुग् इति शेषः । ननु ब्राह्मणानि शंसतीत्यर्थे कथं पञ्चमी ? विधायकवाक्यानि हि ब्राह्मणशब्देनोच्यन्ते, 'कर्मचोदना ब्राह्मणानि' इति कल्पसूत्रात् , 'शेषे ब्राह्मणशब्दः' इति मन्त्रभिन्नवेदभागे ब्राह्मणशब्दस्य जैमिनिना संकेतितत्वाच्च । एतादृशब्राह्मणभागस्य न क्वापि शंसनं विहितम्-'ऋचः शंसति निविदः शंसति' इति श्रुतिष्वित्यत आह-ब्राह्मण इति । शस्त्राणीति । ऋचां निविदां च संघः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थ इति । पञ्चम्या अलुगुपसंख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः । ओजस् । श्रोजस् , सहस् , अम्भस् , तमस् एषां समाहारद्वन्द्वः । एभ्यः परस्यास्तृतीयाया अलुक् स्यादुत्तरपद इत्यर्थः । प्रोजसाकृतमिति । 'कर्तृकरणे कृता बहुलम्' इति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादीति । सहसाकृतम् , अम्भसाकृतम् । तमसावृतम् । तमोवृतइति सूत्रपठिताः । समासे सुपो लुकि प्रसक्ते विधीयमानेनालुक्शास्त्रेण समासशास्त्रपठितानामविलम्बेनोपस्थितेाप्तिन्यायाच्च । 'स्तोकान्तिक-' इत्यत्र ह्यर्थग्रहणादन्यान्यपि बहूनि गृह्यन्ते तदेतन्मनसि निधायाह-एवमिति । द्विवचनबहुवचनान्तानां तु समासो नेष्यते, अनभिधानात् । तेन 'स्तोकाभ्यां मुक्तः' इत्यादौ वाक्यमेव । शस्त्राणीति । 'प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम्, अप्रगीतमन्त्रसाध्यगुणिनिष्टगुणाभिधानं शस्त्रम्' इति याज्ञिकानां व्यवहारः । ओजःस । प्रोजसा. कृतमिति । 'कर्तृकरणे कृता-' इति समासः । कथं तर्हि 'सततनैशतमोवृतमन्यतः' इति भारविः । अत्राहुः–'तु वर्तने' इत्यस्माद् 'घबर्थे कविधानम्' इति भावे