________________
प्रकरणम् २४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२३१ उपसख्यानम्' ( वा ३८८०)। अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः । 'पुंसानुजो जनुषान्ध इति च' (वा ३८८१) । यस्याग्रजः पुमान्स पुंसानुजः । जनुषान्धो जात्यन्धः । ६६१ मनसः संज्ञायाम् । (६-३-४) ममसागुप्ता । ६६२ आज्ञायिनि च । (६-३-५) मनस इत्येव । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी । १६३ आत्मनश्च । (६-३-६) प्रात्मनस्तृतीयाया अलुक्स्यात् । 'पूरण इति वक्तव्यम्' (वा ३८८२) पूरणप्रत्ययान्ते उत्तरपद इत्यर्थः । प्रारमनापञ्चमः । 'जनार्दनस्त्वात्मचतुर्थ एव इति बहुव्रीहिर्बोध्यः । मिति तु असाध्वेव । शेषषष्ठया वा समासः । अञ्जस उपसंख्यानमिति । अञ्जश्शब्दात् तृतीयाया अलुक उपसंख्यानमित्यर्थः अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽजसा नयतीत्यादौ तथा दर्शनात् । तदाहआर्जवेनेति । पुंसानुजः । तृतीयाया अलुकि साधुरिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति। 'जनुजननजन्मानि' इत्यमरः । जनुषा जन्मना अन्ध इत्यर्थः । फलितमाह-जात्यन्ध इति । ब्राह्मण्यादिजातितुल्यान्ध्यवानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् । मनसः संज्ञायाम् । मनसस्तृतीयाया अलुक् स्यादुत्तरपद इत्यर्थः । मनसागुप्तेति । कस्याश्चित् संज्ञेयम् । असंज्ञायां तु मनोगुप्ता । आज्ञायिनि च । मनस इत्येवेति । अनुवर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्याद् आज्ञायिनि पर इत्यर्थः । असंज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाशायीति । 'सुप्यजातौ--' इति णिनिः । 'आतो युक्चिणकृतोः' इति युक् । अत्र सूत्रभाष्ये 'आत्मनश्च पूरण उपसंख्यानम्' इति वार्तिकं पठितम् । तत्रात्मनश्चेत्यंश व्याख्यातुं पृथगुपादत्ते-आत्मनश्चेति । चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह-आत्मनस्तृतीयाया अलुगिति । उत्तरपदे पर इति शेषः। पूरण इति वक्तव्यमिति । नात्र पूरणशब्दो गृह्यते। किंतु स्वरितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् 'प्रत्ययग्रहणे- इति तदन्तविधिरित्यभिप्रेत्याह-पूरणप्रत्ययान्त कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति । यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे, तथा च 'नैशतमसा' इति तृतीयाया अलुङ् न भवतीति दुर्घटवृत्त्यादावुक्तम् । तन्न । ‘पदाङ्गाधिकारे-' इत्यत्र 'इष्टकचितं, पक्केष्टकचितम्' इति भाष्योदाहरणादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः । जनुषेति । 'जनुर्जनन जन्मानि' इत्यमरः । प्रात्मनापश्चम इति । 'तृतीया' इति योगविभागात् समासः ।
१ 'जन्मना' इत्यस्याप्रे 'हेतुना' इत्यपि क्वचित् पाठः ।