________________
२३२ ] सिद्धान्तकौमुदी। [अलुक्समासपूरणे किम्-प्रात्मकृतम् । ६६४ वैयाकरणाख्यायां चतुर्थ्याः । (६-३-७) श्रारमन इत्येव, आत्मनेपदम् , प्रारमनेभाषाः । तादर्थे चतुर्थी । चतुर्थी इति योगविभागात्समासः । ६६५ परस्य च । (६-३-८) परस्मैपदम् । परस्मैइति । आत्मनापञ्चम इति । आत्मा पञ्चम इत्यर्थः । प्रकृत्यादित्वात् प्रथमार्थे तृतीया । यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः । करणे तृतीया । करोतिक्रियान्तर्भावण तस्याः 'तृतीया तत्कृता-' इति समासः । पक्षद्वयमपीदं भाष्ये स्थितम् । ननु संकर्षणप्रद्युम्नानिरुद्धास्त्रयो विष्णुव्यूहाः । जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम् । तत्रेदमाहुः पौराणिकाः-जनार्दनस्त्वात्मचतुर्थ एवेति । तत्र तृतीयाया अलुकि आत्मनाचतुर्थ इति भवितव्यमित्यत आह-जनार्दनस्त्विति । बहुव्रीहिरिति । आत्मा चतुर्थो यस्येति विग्रहे बहुव्रीहिरित्यर्थः । एकस्याप्यौपाधिकभेदं परिकल्प्य बृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीय मिति भावः । तदिदं भाष्ये स्पष्टम् । वैयाकरणाख्यायाम् । आत्मन इत्येवेति । अनुवर्तत एवेत्यर्थः। न च 'आत्मनश्च' इत्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुत्तिरिति वाच्यम् , 'सोऽपदादौ' इति सूत्रे पठितस्य 'काम्ये रोरेवेति वाच्यम्' इति वार्तिकस्य 'इणष्षः' इति सूत्रेऽनुवृत्तिवदुपपत्तेः । व्याकरणे भवा वैयाकरणी, सा चासावाख्या च वैयाकरणाख्या, तस्यां या चतुर्थी तस्या अलुगित्यर्थः । आत्मनेभाषेति । पूर्वाचार्यकृतमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम् । तादर्थ्य चतुर्थीति । तथा चात्मने इत्यस्यात्मार्थमित्यर्थः । आत्मगामिनि फले प्रायेण तद्विधानादिति भावः । ननु प्रकृतिविकाराभावात् कथमिह तादर्थं चतुर्थ्याः समास इत्यत आहचतुर्थीति । योगविभागादिति । पस्पशाह्निकभाष्ये धर्माय नियमो धर्मनियम इति भाष्यमिह लिङ्गम् । परस्य च । वैयाकरणाख्यायां परशब्दस्यापि चतुर्थ्या इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके । 'आत्मना कृतः पञ्चमः' इति करोतिक्रियापेक्षा सेत्यन्ये । बहुव्रीहिर्बोध्य इति । एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः । वैयाकरणा। व्याकरणे भवा वैयाकरणी। 'अगयनादिभ्यः' इत्यण् । सा चासावाख्या चेति कर्मधारयः। आत्मन इत्येवेति। इह 'श्रात्मनः' इत्यननुवर्त्य 'वैयाकरणाख्यायां चतुझं अलुक्' इति व्याख्याने तु 'परस्य च' इत्युत्तरसूत्रं त्यक्तं शक्यमित्याहुः । आत्मनेभाषा इति । यद्यपीयमाख्या अष्टाध्याय्यां नास्ति, तथापि धातुपाठेऽस्तीति भावः । प्रकृतिविकृतिभावविरहाद् 'रन्धनाय स्थाली' इतिवत्समासाभावमाशङ्कयाह-योगविभागादिति । इहालुग्विधिसामर्थ्यादपि समासः सुवचः । परस्य च । परशब्दस्य च या चतुर्थी तस्या