________________
प्रकरणम् २४] बालमनोरमा तत्त्वबोधिनीसहिता। [१३३ भाषाः । ६६६ हलदन्तात्सप्तम्याः संज्ञायाम् । (६-३-६) हलन्ताददन्ताश्च सप्तम्या अलुक्संज्ञायाम् । स्वचिसारः । ६६७ गवियुधिभ्यां स्थिरः। (८-३-६५) प्राभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र 'संज्ञायाम् (सू ७२१) इति सप्तमीसमासः । 'हृद्युभ्यां च' (वा ३८८५)। हृदिस्पृक् । दिविस्पृक् । ६६८ कारनानि च प्राचां हलादौ । (६-३-१०) प्राचां देशे यत्कारनाम अलुगित्यर्थः । हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । 'वंशे त्वक्सारकरित्वचिसारतृणध्वजाः' इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति-युधिष्ठिर इति । अत्र 'अजिरशिशिरस्थिर-' इत्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः । तत्र 'आदेशप्रत्यययोः' इति षत्वस्य 'सात्पदाद्योः' इति निषेधे प्राप्ते इदमारभ्यते-गवियुधिभ्यां स्थिरः । गवीति युधीति च सप्तम्या अनुकरणम् । स्थिर इति प्रथमा षष्ठयर्थे । 'सहेः साडः सः' इत्यस्मात् स इति षष्ठयन्तमनुवर्तते। 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् , तदाह-आभ्यामिति । ननु 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभाषया अवादेशात् पूर्वमेव डेर्लुकि प्रवृत्त हलन्तत्वाभावात् कथमिहालुगित्यत आह-अत्र गवीति । युधिष्ठिर इति । युध्धातो वे क्विपि युधशब्दात् सप्तम्येकवचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तंदवं हलन्तादलुकं प्रपञ्च्य अदन्तादलुकमुदाहरति-अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात् कथं तेन सप्तमीसमास इत्यत आह-अत्र संज्ञायामिति । हृद्युभ्यां चेति। हृच्छब्दाद् दिवशब्दाच सप्तम्या अलुग्वक्तव्य इत्यर्थः । असंज्ञार्थमिदम् । हृदिस्पृगिति। 'पद्दन्-' इति ङौ हृदयस्य हृदादेशः, हृदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुम्विधानबलादेव कर्मणि सप्तमीति भाष्यम् । 'अमूर्धमस्तकात्-' इत्यनेन त्वलुग् न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः । कारनानि । यत् कारअलुक् स्याद्वैयाकरणाख्यायाम् । गवियुधि । स्थिरशब्दोऽयम् 'अजिरशिशिर-' इत्यौणादिकः किरच्प्रत्ययान्तस्तिष्ठतेर्निष्पन्नः । 'सात्पदाद्योः' इति निषेधे प्राप्ते वचनारम्भः । गवीति वचनादेवेति । न च लुकं बाधित्वा परत्वादन्तरङ्गत्वाचावादेशे 'हलदन्तात्सप्तम्या:-' इत्येवालुक् सिध्यतीति वाच्यम् , 'अन्तरङ्गानपि विधीन बहिरङ्गो लुग् बाधते' इति लुको बलीयस्त्वादिति भावः । हृदिस्पृक दिविस्पृगिति । हृदयं दिवं च स्पृशतीति विग्रहः । अलुग्विधिसामर्थ्याकर्मणि