________________
२३४ ]
सिद्धान्तकौमुदी । [ अलुक्समास
1
तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या श्रलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम्, कारनाम्न्येव प्राचामेव हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम्-यूथपशुः । हलादौ किम् - अविकटोरणः । हलदन्तात् किम् - नद्यां दोहो नदीदोहः । ६६६ मध्याद् गुरौ । ( ६-३-११ ) मध्येगुरुः । ' श्रन्ताच्च' ( वा ३८६४ ) श्रन्तेगुरुः । ६७० अमूर्धमस्तकात्स्वाङ्गादकामे । ( ६-३-१२ ) कण्ठेकालः । उरसिलोमा । श्रमूर्धमस्तकात् किम् - मूर्धशिखः, मस्तकशिखः । श्रकामे किम्मुखे कामोsस्य मुखकामः । ६७१ बन्धे च विभाषा । ( ६-३-१३ ) हलदन्तात्सप्तम्या श्रलुक् । हस्तेबन्धः, हस्तबन्धः । हलदन्त इति किम्-गुप्तिबन्धः । ६७२ तत्पुरुषे कृति बहुलम् । ( ६-३ - १४ ) स्तम्बेरमः स्तम्बरमः कर्णेजपः, कर्णजपः । क्वचिन्न – कुरुचरः । ६७३ प्रावृद्वरत्कालदिवां जे । नामेति । राजग्राह्यो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः । नियमार्थमिति । प्राचां देशे हलादौ यदि भवति कारनाम्येव, कारनाम्नि हलादौ चेत् प्राचामेव, प्राचां कारनाम्नि चेद् हलादावेवेति नियमत्र्यार्थमित्यर्थः । विकटोरण इति । श्रविशब्दात् संघाते कटच्, उरणो मेषः । नद्यामिति । नधुत्तारणे तात्कालिको दोहः करः । मध्याद् गुरौ । गुरुशब्दे परे मध्यशब्दात् सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक् स्याद् गुरौ पर इत्यर्थः । अमूर्धमस्तकात् । मूर्धमस्तकशब्दवर्जितात् स्वाङ्गवाचकात् सप्तम्या अलुक् स्यात् नतु कामशब्दे उत्तरपद इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । त एव ‘हृद्द्युभ्यां च' इत्यत्र हृद्ग्रहणमर्थवत् । कण्ठेकाल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एव ज्ञापकाद् व्यधिकरणपदो बहुव्रीहिः । बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे - हलदन्तादिति । हस्तेबन्ध इति । संज्ञायामिति सप्तमीतत्पुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, बन्ध इति घञन्तम्, अन्यत्र तु 'नेन्सिद्ध-' इति निषेध इति स्पष्टं भाष्ये । तत्पुरुषे कृति | तत्पुरुषे सप्तम्या बहुलमलुक् स्यात् कृदन्त उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती । कजप इति । कर्णे जपति परदोषमुपांश्वाविष्करोतीति कजपः पिशुनः । ' स्तम्बकर्णयो रमिजपोः’ सप्तमी, कर्मणोऽधिकरणत्वविवक्षया वा । अविकठोरण इति । 'संघाते कटच् इति कटच्प्रत्ययान्तः । उरणो मेषः । बन्धे च विभाषा । बन्ध इति घञन्तः । हस्तेबन्ध इति । बहुव्रीहिरयम् । तत्पुरुषे तु 'नेन्सिद्धबध्नातिषु च' इति वक्ष्य
"