________________
प्रकरणम् २४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३५ (६-३-१५) प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः । ६७४ विभाषा वर्षक्षरशरवरात् । (६-३-१६) एभ्यः सप्तम्या अलुग्जे । वर्षजः, वर्षजः । हरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः। 8७५ घकालतनेषु कालनानः । (६-३-१७) सप्तम्या विभाषया लुक्स्यात् । घ-पूर्वाह्नेतरे, पूर्वाह्नतरे । पूर्वाळेतमे, पूर्वाह्नतमे । काल-पूर्वालेकाले, पूर्वाह्यकाले । तन-पूर्वाद्धेतने, पूर्वाह्नतने । ६७६ शयवासवासिष्वकालात् । (६-३-१८) खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामवासी, ग्रामवासी । 'हलदन्तात्' इत्येव, भूमिशयः । 'पो योनियन्मतुषु (वा ३८७६)। अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवः अप्सव्यः । अप्सुमन्ताइत्यच् । उपपदसमासः । क्वचिन्नेति । बहुलग्रहणादिति भावः । कुरुचर इति । 'चरेष्टः' इत्यधिकरण उपपदे चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदम् , तथापि बहुलग्रहणादेव सिद्धे 'हलदन्ताद्' इति नानुवर्तनीयमिति भावः । प्रावृट्छरत् । प्राकृट, शरत् , काल, दिव , एषां सप्तम्या अलुक् स्याद् जशब्दे परे संज्ञायामित्यर्थः । ननु 'हलदन्तात्-' इत्येव सिद्धे किमर्थमिदमित्यत आहपूर्वस्यैवायं प्रपञ्च इति । विस्तर इत्यर्थः । विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे-एभ्यस्सप्तम्या इति । घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टेसप्तम्या इति । घेति । घे पर उदाहरणसूचनमिदम् । 'तरप्तमपौ घः' । पूर्वाह्नेतर इति । अतिशायने सप्तम्यन्तात् तरप्तमपौ । अत एव तत्तद्विभक्त्यन्तात् तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्नकाल इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तनेति । उदाहरणसूचनमिदम् । पूर्वाह्नेतन इति । 'विभाषा पूर्वाह्णापरालाभ्याम्' इति टयटयलौ तुट् च । शयवास । शय, वास, वासिन् एतेषु परेषु कालभिन्नात् सप्तम्या अलुक् स्यादित्यर्थः। अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात् सप्तम्या अलुक् स्यादित्यर्थः । अपसव्य इति । दिगादित्वाद्यत् । 'श्रोर्गुणः'। 'वान्तो यि-'इत्यवादेशः । अप्सुमन्ताविति । अप्सु इति पदं यदीयमन्त्रयोरस्ति तावासुमन्तौ, आज्यभागामाणेन निषेध एवेत्याहुः । अप्सव्य इति दिगादित्वाद्यति ओर्गुणे वान्तादेशः । प्राचा तु यतः स्थाने जं पठित्वा 'अप्सुजः' इत्युदाहृतम्, तदाकरविरुद्धम् । 'जे चरे च नक्तम् अप्सुजः अप्सुचरः' इति भाष्ये वचनान्तरदर्शनाच्च । केचित्तु 'अप्सुजः' इत्युक्तोदाहरणद्वयेऽपि 'हलदन्तात्-' इत्यलुकमाहुः । अप्सुमन्ताविति । कारीर्याम् 'अप्स्वमे सधिष्ठव', 'अप्सु मे सोमो अब्रवीत्' इत्याज्यभाग