________________
२३६ ]
सिद्धान्तकौमुदी। [अलुक्समासवाज्यभागौ । ६७७ नेन्सिद्धबध्नातिषु च । (६-३-१६) इन्नन्तादिषु सप्तम्या अलुग्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः । १७८ स्थे च भाषायाम् । (६-३-२०) सप्तम्या अलुग्न । समस्थः । भाषायां किम्कृष्णोऽस्याः खरेष्ठः । ६७६ षष्ठया आक्रोशे । (६-३-२१ ) चौरस्यकुलम् ।
आक्रोशे किम्-ब्राह्मणकुलम् । 'वाग्दिक्पश्यद्यो युक्रिदण्डहरेषु' (वा ३८६७) वाचोयुक्निः । दिशोदण्डः । पश्यतोहरः। 'प्रामुष्यायणामुष्यपुत्रिकामुष्यकुनिकेति च' ( वा ३८६८-३८६६) अमुष्यापत्यमामुष्यायणः । नडादित्वास्फक् । विति कर्मविशेषौ । नेन्सिद्धबध्नातिषु च । चक्रबद्ध इति । साधनं कृता इति क्तान्तेन सप्तम्यन्तस्य समासः। स्थे च भाषायाम् । 'अनन्तरस्य-' इति न्यायात्। तत्पुरुषे कृति' इत्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये 'सप्तम्युपमानपूर्वपदस्य-' इति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः संगच्छते। यदा तु अमूर्धमस्तकात्-' इत्यस्याप्ययं निषेधः स्यात्तर्हि तदसंगतिः स्यात् , लुकप्रसङ्गात् । षष्ठया आक्रोशे । अलुगुत्तरपद इति शेषः । श्राक्रोशो निन्दा । वाग्दिक। वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठया अलुक् स्याद् युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पश्यन्तमनाहत्य हरतीत्यर्थः । षष्ठी चानादरे' इति षष्ठी। प्रामुष्यायणेति। वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्यापत्यमित्यर्थे 'नडादिभ्यः फक्' इति फकि प्रायन्नादेशे श्रादिवृद्धौ तद्धितान्तत्वात् प्रातिपदिकतया तदवयवत्वात् मन्त्री स्तः। तत्र ह्यप्सुशब्दोऽस्तीति तद्वारा आज्यभागयोरप्यप्सुमत्त्वम् । प्राचा तु 'मतिषु' इति पठित्वा 'अप्सुमतिः' इत्युदाहृतम् । अत्र केचित्-अप्स्वित्येतदनुकरणशब्दः, सप्तम्यन्तो वा । श्राद्य सप्तम्यन्तात्प्रथमाया अभावेन मतुबेव दुर्लभः । अन्त्ये तु लुकः प्राप्तिरेव नास्ति सप्तम्यभावात् । तथा च 'मतिषु' इति प्राचोक्तः पाठ एव युक्तः । न च स पाठो भाष्यादौ न दृष्ट इति वाच्यम् , 'मतिषु' इति पाठस्य 'अप्सुमतिः' इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्वाप्यदर्शनाद् व्यर्थत्वाच । 'अस्यवामीयम्' 'कथाशुभीयम्', इत्यादाविव लुकि कर्तव्ये 'प्रकृतिवदनुकरणम्' इत्यतिदेशाप्रवृत्त्येवष्टसिद्धरित्याहुः । नेन्सिद्धब। चक्रबन्ध इति । 'तत्पुरुषे' इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः । बहुव्रीहौ तु 'बन्ध च विभाषा' इति विकल्प एव । पश्यतोहर इति । 'पश्यन्तमनादृत्य हरति'