________________
प्रकरणम् २४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३७ अमुष्यपुत्रस्य भावः प्रामुष्यपुत्रिका । मनोज्ञादिस्वादुम् । एवमामुष्यकुलिका । 'देवानांप्रिय इति च मूर्खे' (वा ३६००)। अन्यत्र देवप्रियः । 'शेपपुच्छलाङ्गलेषु शुनः' (वा ३९०१)। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गलः । 'दिवसश्च दासे' ( वा ३१०२) दिवोदासः । ६८० पुत्रेऽन्यतरस्याम् । (६-३-२२) षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रो दासीपुत्रः । निन्दायां किम् । ब्राहाणीपुत्रः । ६८१ ऋतो विद्यायोनिसम्बन्धेभ्यः । (६-३-२३) विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तात्षष्ट्या अलुक् । होतुरन्तेवासी । होतुःपुत्रः। पितुप्राप्तस्य सुब्लुको निषेध नस्य णत्वे प्रामुष्यायण इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्टीसमासे षष्ठया अलुकि अमुष्यपुत्रशब्दः। अमुष्यपुत्रस्य भाव इत्यर्थे 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुनि अकादेश पुत्रशब्दात् सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापि 'प्रत्ययस्थात्-' इतीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठया अलुकि अमुष्यकुलशब्दाद्वादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् । मूर्खः अज्ञः । दिवु क्रीडायाम् । देवाः क्रीडासक्ला मूर्खाः, तेषां प्रियोऽपि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादिति 'अजेर्वी-' इत्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठया अलुगिति शेषः। संज्ञायामिति भाष्यम् । शुनश्शप इति । शुनः शेप इव शेपो यस्येति विग्रहः । 'मेद्रो मेहनशेफसी' इत्यमरः । शेफशब्दोऽप्यस्ति, 'शेफाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गल इत्यपि । ऋषिविशेषाणां संज्ञा एताः । दिवश्च दास इति । वार्तिकम् । षष्ठया अलुगिति शेषः दिवोदास इति । कश्चिद्राजर्षिरयम्। पुत्रेऽन्यतरस्याम् । निन्दायामिति ।
आक्रोशे इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् 'आनकृतः-' इत्यत्र भाष्ये ऋतो विद्या । एकत्वे बहुवचनम् । तदाह - विद्यासंबन्धयोनिसंबन्ध. इत्यर्थः । 'षष्ठी चानादरे' इति षष्टी । देवानामिति । मूर्खा हि देवानां प्रीति जनयन्ति देवपशुत्वादिति मनोरमा। अयं भावः-ब्रह्मज्ञानरहितत्वात्संसारिणो मूर्खाः। ते तु यागादिकर्माण्यनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानामत्यन्तं प्रीति जनयन्ति । ब्रह्मज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाभावात् । अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति । शेपपुच्छेति । शुन इव शेपमस्य शुनःशेपः ।
'शेफ' इति क्वचित् पाठः । २ अमरकोश तु–'शिश्नो मेट्रं मेहनशेफसी-' इति पाठ उपलभ्यते ।