________________
२३८ ]
सिद्धान्तकौमुदी | [ अलुक्समास
।
रन्तेवासी। पितुःपुत्रः। ‘विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्' (वा ३६०३) नेह — होतृधनम् । ६८२ विभाषा स्वसृपत्योः । ( ६-३ - २४ ) ऋदन्तास्षष्ठया अलुग्वा स्वसृपत्योः परयोः । ६८३ मातुः पितुभ्र्भ्यामन्यतरस्याम् ( ८-३ - ८५ ) श्राभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःष्वसा मातु:स्वसा । पितुःष्वसा पितुःस्वसा । लुक्पक्षे तु - ६८४ मातृपितृभ्यां स्वसा । ( ८-३-८४ ) आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृवाचिन ऋदन्तादिति । श्रलुक् स्यादिति । उत्तरपदे परत इति शेषः । विद्यासंबन्धवाचिनमुदाहरति-— होतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासंबन्धवाचिन उदाहरणान्तरमिदम् । अथ योनिसंबन्धवाचिनमुदाहरतिपितुरन्तेवासीति, पितुः पुत्र इति च । ननु होतृधनं पितृधनमित्यत्राप्यलुक् स्यादित्यत आह-विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति । विद्यायोनिसंबन्धेभ्य इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोर्ग्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासंबन्ध योनिसंबन्धान्यतरवाचित्वं विवचितमिति भावः । होतृधनं पितृधनमित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाभावाद् न षष्ठया अलुगिति भावः । अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव होतुः पुत्र इत्यादि सिद्धम् । विभाषा स्वसृपत्योः । ऋदन्तादिति । विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन इति शेषः । ततश्च भोक्तृस्वसेत्यत्र नातिव्याप्तिः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह - मातुः पितुर्भ्यामन्यतरस्याम् । 'मातृपितृभ्यां स्वसा' इति पूर्वसूत्रात् स्वसेत्यनुवर्तते । षष्ठ्यर्थे प्रथमा । 'सहः साडस्स: ' इति सूत्रात् स इति षष्ठधन्तं पदमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह - भ्यामिति । मातुः पितुरिति षष्ठ्यन्ताभ्यामित्यर्थः । समास इति । ‘समासेऽङ्गुलेः सङ्गः' इत्यतस्तदनुवृत्तेरिति भावः । मातुःष्वसा पितुःष्वसेति श्रलुकि षत्वे रूपम् । मातुः स्वसा पितुः स्वसेत्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति । विशेषो वक्ष्यत इति शेषः । मातृपितृभ्यां स्वसा । स्वसुरिति । सूत्रे षष्ठ्यर्थे यद्यपि शेपस्शब्दः सकारान्तः 'गौर्लिङ्गं चिह्नशेपसोः' इत्यमर प्रयोगात् । तथापि शीङो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव । तथा च मन्त्रः 'यस्यामुशन्तः प्रहराम शेपम्' इति । 'चिह्नशेफयो:' इति पाठे तु शेफशब्दस्य सकारान्तत्वशङ्कव नास्तीति बोध्यम् । शुनः पुच्छ इत्यादावपि बहुव्रीहिः, त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः । ‘मातुःपितुर्भ्याम्—' इति सूत्रे 'समासेऽङ्गुलेः सङ्गः' इत्यतः समास इत्यनुवर्ति
ु