________________
प्रकरणम् २४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३६ वसा । असमासे तु-मातुःस्वसा, पितुःस्वसा ।
इत्यलुक्समासप्रकरणम् ।
nosot00अथ समासाश्रयविधिप्रकरणम् । २५ ।
६८५ घरूपकल्पचेलबवगोत्रमतहतेषु ङयोऽनेकाचो हखः । (६-३-४३) भाषितपुंस्कायो डी तदन्तस्यानेकाचो हस्वः स्यादरूपकल्पपप्रत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । प्रथमेति भावः । मातृष्वसा, पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेशप्रत्ययसकारत्वाभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहणानुवृत्तेः फलं दर्शयति-असमासे त्विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायाम् अलुक्समासप्रकरणं समाप्तम् ।
अथ समासाश्रयविधिनिरूप्यते-घरूप । उत्तरपदे इत्यधिकृतं चेलडादिध्वन्वेति, नतु घरूपकल्पेषु, घशब्दवाच्यतरप्तमपो रूपप्कल्पपोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यम् , 'हृदयस्य हृल्लेख-' इत्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभाव इति भाष्य उक्तत्वात् । 'स्त्रियाः पुंवत्-' इत्यतो भाषितपुंस्कादित्यनुवृत्तम् । ड्य इति तदन्तग्रहणम् , केवलस्यानेकाच्वाभावात् । तदाह-भाषितपुंस्काद्यो ङी इति । एतदर्थमेव 'स्त्रियाः पुंवत्-' इत्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तम् । तत्र भाषितपुंस्काया इति षष्ठयन्तोपादाने तु इह तदनुवृत्तिर्न स्यात् , असंभवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति। न च तत्रापि नार्थवत्स्याद् अनूङिति पर्युदासात् स्त्रीप्रत्ययलाभेन तदन्तस्थ भाषितपुंस्कत्वाभावादिति वाच्यम् , तत्र स्त्रिया इत्यस्वरितत्वात स्त्रीप्रत्ययग्रहणं नेत्युक्तत्वात् । ब्राह्मणितरा । ब्राह्मणितमेति । अतिशायने तरप्तमपौ। नच 'तसिलादिषु-' तम् , तत्फलं दर्शयति-असमासे त्विति । वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः ।
इत्यलुक्समासप्रकरणम्
घरूपकल्प- 'तरप्तमपौ पः-' । 'प्रशंसायां रूपप्' । 'चिल वसने' । 'चेलट्' इति पचादौ टित्पठ्यते डीबर्थम् । प्रत्ययेष्विति । लेखग्रहणेन 'उत्तर