________________
२२६ ] सिद्धान्तकौमुदी। [ सर्वसमासशेषसः। धोवसीयसम् । श्वःश्रेयसं ते भूयात्। ६४६ अन्ववतप्ताद्रहसः (५-४-८१) अनुरहसम् । अवरहसम् । तप्तरहसम् । ६५० प्रतेरुरसः सप्तमीस्थात् । (५-४-९२) उरसि प्रति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः। ६५१ अनुगवमायामे। (५-४-८३) एतनिपात्यते दीर्घत्वे । अनुगवं यानम् । 'यस्य चायामः' (सू ६७०) इति समासः । ६५२ द्विस्तावा त्रिस्तावा वेदिः । षष्टीसमासः । प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वाद् न स्त्रीलिङ्गता । एवं च श्वस्शब्द उत्तरपदार्थगतप्राशस्त्यद्योतक इति फलितोऽर्थः । ननु तर्हि श्वस्शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याभावा कथं विशेषणसमास इत्यत आह-मयूरेति । तथाचाशीर्लिङादिप्रयोग एव अस्य साधुत्वमित्यभिप्रेत्योदाहरति-श्वोवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः । श्वःश्रेयसमिति । अतिशयेन प्रशस्तमिति विग्रहे प्रशस्तशब्दादीयमुन्, प्रशस्यस्य श्रः, 'प्रकृत्यैकाच्' इति प्रकृतिभावान टिलोपः, श्राद्गणः, श्रेयस् इति रूपम् । श्वस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः । 'श्वःश्रेयसं शिवं भद्रम्' इत्यमरः । ते भूयादिति तु उभयत्रापि संबध्यते-श्वोवसीयसं ते भूयात् , श्वःश्रेयसं ते भूयादिति । अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रह:शब्दः तस्मादच्स्यादित्यर्थः । रहः अप्रकाशप्रदेशः। अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति विग्रहः। उभयत्र प्रादिसमासः। तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः। सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दः तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रति । तस्य विभक्त्यर्थे विद्यमानस्य 'अव्ययं विभक्ति' इत्यादिना. ऽव्ययीभाव इति भावः । अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्व द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवं यानमिति । अनुगोशब्दादचि अवादेश इति भावः। यस्य प्रकृते त्वर्थविशेषपरः । शक्तिखाभाव्यात्तमेवाह-उत्तरपदार्थप्रशंसामिति । 'उत्तरपदार्थभूतां प्रशंसामित्यर्थः' । आशीविषयमिति । षष्टीसमासः । विषयशब्दस्याजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः । 'उत्तरपदार्थप्रशंसाया आशीविषयतामाह' इति पाठान्तरं क्वचिदस्ति । उभयथापि आशीविषयताया द्योतकोऽयमिति फलितोऽर्थः । अन्वव । इह 'रहः' इत्यप्रकाशमुच्यते । 'अनुगतमवहीनं च रहः' इति प्रादिसमासः। 'अनुगतं रहोऽस्मिन्' इत्यादिबहुव्रीहिर्वा । तप्तरहसमिति । 'तप्तं च तद्रहश्च' इति