________________
प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २२५ ६४६ ब्रह्महस्तिभ्यां वर्चसः । ( ५-४-७८ ) अस्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । 'पल्यराजभ्यां चेति वक्तव्यम्' ( बा ३३५२ ) । पश्यवर्चसम् । राजवर्चसम् । ६४७ अवसमन्धेभ्यस्तमसः । ( ५-४-७६ ) अवतमसम् । सन्तमसम् । अन्धयतीत्यन्धम्, पचाद्यच्, अन्धं तमोऽन्धतमसम् । ६४८ श्वसो वसीयःश्रेयसः । (५-४-८०) वसुशब्दः प्रशस्तवाची, तत ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्बिषयमाह । मयूरव्यंसकादित्वात्समाब्रह्म । शेषपूरणेन सूत्रं व्याचष्टे - अस्यादिति । ब्रह्मवर्चसमिति । ब्रह्मणो वर्च इति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्च इति विग्रहः । पल्यराजभ्यामिति । श्रभ्यां परो यो वर्चश्शब्दः तस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसम्, तदर्हति पल्यः, मांसभोजीत्यर्थः, तस्य वर्च इति विग्रहः । राजवर्चसमिति । राज्ञा वर्च इति विग्रहः । श्रवसमन्धेभ्यस्तमसः । अव सम् अन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः । अवतमसमिति । वहीनं तम इति विग्रहः । प्रादिसमासः । संतमसमिति । संततं तम इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । 'अन्ध दृष्टयपघाते' चुरादिः, दृष्टि प्रतिबध्नातीत्यर्थः । पचाद्यजिति । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अचि णिलोपेऽन्धमिति रूपम् । गाढमित्यर्थः फलति । गाढस्यैव तमसो दर्शनप्रतिबन्धकत्वात् । अन्धतमसमिति । कर्मधारयादच् । श्वसः । श्वस् इत्यव्ययात् परो यो वसीयश्शब्दः श्रेयश्शब्दश्च तस्मादच् स्यादित्यर्थः वसुशब्दः प्रशस्तवाचीति । 'यं कामयेत वसीयान् स्यात्' इत्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपदे-' इतीयसुनि, ‘तुरिष्ठेमेयस्सु' इत्यनुवृत्तौ टेरिति टिलोपे वसीयश्शब्द इत्यर्थः । श्वस्शब्द इति । यद्यपि श्वस्शब्दः कालविशेषवाची, तथापि प्रकृते शब्दशक्तिस्वभावादुत्तरपदाभूतां प्रशंसाम् आशीर्विषयं द्योतयतीत्यर्थः । आशिषो विषय आशीर्विषयः, तमिति नियमो दर्शितः, तेन षष्ठीतत्पुरुष ' गोष्टश्वा' इत्येव । ब्रह्मवर्चसमिति । षष्ठीतत्पुरुषः । एवं हस्तिवर्चसमपि । पल्येति । 'पलं मांसमर्हति' इति पल्यो मांसभोजी, तदीयं वर्चः पल्यवर्चसम् । श्रवतमसमित्यादि । अवहीनं संततं च तमः इति विग्रहः । अन्धयतीति । 'अन्ध दृष्टयुपघाते' चुरादिः । अन्धमिति । गाढमित्यर्थः । श्वसो । 'वसुशब्दात्प्रशस्तवचनादीयसुन्' इत्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति - वसुशब्द इति । वसीय इति । 'यः कामयेत वसीयान् स्याम्' इति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः । श्वस्शब्द इति । कालवाच्यप्ययम्,