________________
२२४ ]
सिद्धान्तकौमुदी ।
[ सर्वसमासान्त
बहुव्रीहौ तु सरजः पङ्कजम्। निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्यायुषम् । ज्यायुषम् । ततौ द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोशः । महोत्रः । वृद्धोतः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोडे वा गोष्टश्वः । इति वीप्सायां द्विर्वचन कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः धूलिः । साकल्ये सहशब्दस्य रजःशब्देनाव्ययीभावः । 'अव्ययीभावे चाकाले' इति सहशब्दस्य सभावः । अच् ।
व्ययीभाव इति । भाष्ये तथा वचनाद् अव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कजमिति । रजोभिः परागैः सहेति विग्रहे 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्य' इति सहस्य सः । बहुव्रीहित्वाद् नाच् । निःश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भाष्यादिति भावः । निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाच् इति भावः । ' ईयसश्च' इति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासाद् अजिति भाष्यम् । ततो द्विगुरिति । भाष्यवाक्यमिदम् । द्वयायुषम्, त्र्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । ' तद्धितार्थे' इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः । ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोऩ इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन् शब्दे टिलोपः । महोक्ष इति । महांश्चासावुक्षा चेति विग्रहः । ' श्रन्महत ः' इत्यात्त्वम् । श्रचि टिलोपः । वृद्धोक्ष इति । वृद्धवासावुक्षा चेति विग्रहः । अचि टिलोपः । उपनमिति । अव्ययीभावादच्, तथा भाष्यात् । नन्वत्र 'नस्तद्धित' इति टिलोपः कुतो न स्यात् । 'अतद्धिते' इति पर्युदासात् 'श्वयुवमघोनामतद्धिते' इति कथं वा संप्रसारणं स्यादित्यत आह - टिलोपाभावः संप्रसारणं च निपात्यत इति । गोष्टभ्य इति । सप्तमीसमासादजिति भाष्यम् । श्रत एव भाष्यात् सप्तमीसमासः । टिलोपः । 'अतद्धिते' इति निषेधान्न संप्रसारणम् । षष्ठीतत्पुरुषे तु गोष्ठश्वा । द्वन्द्वो निपात्यत इति । 'विरूपाणामपि -' इत्येकशेषं बाधित्वेति शेषः । सरजसमिति । 'अव्ययीभावे चाकाले' इति सहस्य सभावः । सरजः पङ्कजमिति । ‘सरजसमकरन्दनिर्भरासु' इति माघ प्रयोगस्तु चिन्त्य इति भावः । निश्रेयानिति । 'निश्चितं श्रेयो येन' इति विग्रहः । 'निश्रेयस्कः' इति केषांचित्प्रत्युदाहरणमशुद्धम् । 'ईयसश्च' इति कपो निषेधात् । गोष्ठे श्वेति । एतेन 'सप्तमीतत्पुरुष एव इति