________________
प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२३ मीपुंसौ। धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रवौ च अक्षिभ्रवम् । दारान गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाटिलोपः। पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च ननन्दिवम् । रात्री च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा चाहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः। वेत्यर्थः । 'संख्ययाव्यय' इति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः । अच् । स्त्रीपुमांसाविति न भवति । धेन्वनडहाविति । धेनुश्च अनड्. वश्चिति विग्रहः । अच् । धेन्वनड्वाहाविति न भवति । समाहारद्वन्द्वे तु 'द्वन्द्वाच्चुदषहान्तात्' इत्येव सिद्धम् । ऋक्सामे इति । ऋक्च साम चेति विग्रहः । श्रच्, टिलोपः। ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनश्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति । अक्षिभ्रवमिति । अच् 'प्राण्यङ्गत्वादेकवत्त्वम् । अक्षिश्रु इति न भवति । दारगवमिति । समाहारद्वन्द्वादच् । दारगु इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू सक्थिनी। अष्ठीवन्तौ जानुनी । 'सक्थि क्लीबे पुमानूरू:' इति, 'जानूरुपर्वाष्टीवदस्त्रियाम्' इति चामरः । नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत
आह-निपातनाट्टिलोप इति । पदष्ठीवमिति । पादौ चाष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्यङ्गत्वादेकवत्त्वम् । नन्वभत्वात् कथमिह पादशब्दस्य पद्भाव इत्यत आह-निपातनादिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् । 'यस्येति च' इत्याकारलोपः, 'अव्ययीभावश्च' इत्यव्ययत्वम् , नपुंसकत्वं च । 'नाव्ययीभावात्' इत्यम्भावः। मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेन्तित्वं निपात्यत इत्यर्थः । 'यस्येति च' इति आकार. लोपः, अम्भावश्च । अहर्दिवमिति । द्वन्द्वे कृते सुब्लुकि, लुका लुप्ते प्रत्ययलक्षणं नेति प्रत्ययलक्षणाभावाद् 'रोऽसुपि' इति रत्वम् , अच्, 'यस्येति च' इत्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात् साहित्याभावात् कथमिह इन्द्रः । अहर्व्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि 'विरूपाणामपि समानार्थकानाम्' इत्येकशेषो दुर्वार इत्यत अाह---वीप्सायां द्वन्द्वो निपात्यत इति । 'नित्यवीप्सयोः' बहुव्रीहिः । 'बहुव्रीहौ संख्येये' इति डचोऽपवादोऽच् । अक्षिभ्रवमिति । प्राण्यङ्गत्वादेकवत् । ऊरू चाष्टीवन्तौ चेति । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । 'जानूरुपर्वाष्टीवदस्त्रियाम्' इति च । ऊर्वष्ठीवम् । पदष्ठीवमिति । प्राण्यङ्गत्वादेकवद्भावः।