________________
२२२] सिद्धान्तकौमुदी। [सर्वसमासान्तयोगविभागादन्यत्रापि । पद्मनाभः । ६४४ अक्षणोऽदर्शनात् । (५-४-७६) अचचपर्यायादरणोऽस्यात्समासान्तः । गवामक्षीव गवाक्षः । ६४५ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्वसामवाङमनसाक्षिभ्रवदारगवोर्वष्टीवपदष्ठीवनक्कन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषव्यायुषत्र्यायुषय॑जुषजातोक्षमहोवृद्धोक्षोपशुनगोष्ठश्वाः । (५-४-७७ ) एते पञ्चविंशतिरजन्ता निपात्यन्ते । श्राद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वारि यस्य अचतुरः । विचतुरः । सुचतुरः। 'ज्युपाभ्यां चतुरोऽजिष्यते' (वा ३३१)। त्रिचतुराः । चतुर्णा समीपे उपचतुराः । तत एकादश द्वन्द्वाः । 'नाव्ययीभावात्' इत्यम् । अन्यत्रापीति । अजिति शेषः। पद्मनाभ इति । पद्मं नाभौ यस्येति विग्रहः । वस्तुतस्तु योगविभागस्य भाष्येऽदर्शनात् पृषोदरादित्व. मेवोचितम् । अणोऽदर्शनात् । अदर्शनादिति च्छेदः । दृश्यतेऽनेनेति दर्शनं चक्षुः। करणे ल्युट् । अचक्षुर्वाचिन इति फलितम् । तदाह-अचतुःपर्यायादिति । गवामक्षीवेति । अक्षिशब्दस्तत्सदृशे लाक्षणिक इति सूचयितुमिवशब्दः प्रयुज्यते । मुख्यवृत्त्या चक्षुर्वाचकत्वाभावादच् । पुंस्त्वं लोकात् । अचतुर । आद्यास्त्रयो बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति । 'नोऽस्त्यर्थानाम्' इति विद्यमानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः सुचतुर इति । सु शोभनानि चत्वारि यस्येति विग्रहः । 'न पूजनात्' इति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः । 'संख्ययाव्ययासन्न' इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये डच्' इति डचं बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च कृष्णभूम इत्यादयो बहुव्रीहयः । पद्मनाभ इति । ‘पद्मं नाभावस्य' इति विग्रहः । गड्वादित्वात्सप्तम्यन्तस्य परनिपातः । 'पद्माकारा नाभिरस्य' इति वा । एवमर्णनाभोऽपि ज्ञेयः । तत्र तु 'व्यापोः संज्ञाछन्दसोः' इति ह्रखो विशेषः । अक्षणो। दृश्यतेऽनेनेति दर्शनं चक्षुः, तद्वाचिनोऽक्षिशब्दस्य पयुदासादमुख्यस्य ग्रहणमित्याशयेनाहअचक्षुःपर्यायादिति । गवाक्ष इति । गावः किरणाः। अक्षिशब्दो रन्ध्रवाची, षष्टीसमासः । अचतुर । निपात्यन्त इति । निपातनफलं तु समासविशेषनियमः, टिलोपादिकं च तदाह-आद्या इति । बहुवीहय इति । बहुव्रीहय एवेत्यर्थः । तेन तत्पुरुषे अचत्वारो विचत्वार इत्येव भवतीति भावः । एवमुत्तरत्राप्यवधारणमृह्यम् । त्रिचतुरा इति । त्रयश्चत्वारो वेति विग्रहः । 'संख्ययाव्ययासन्ना-' इति