________________
प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२१ रम्यपथो देशः । ६४३ अप्रत्यन्ववपूर्वात्सामलोग्नः । (५-४-७५) एतत्पूर्वास्सामलोमान्तात्समासादस्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । 'कृष्णोदक्पाएदुसंख्यापूर्वाया भूमेरजिष्यते' (वा २०४६) कृष्णभूमः । उदग्भूमः । पाण्डुभूमः। द्विभूमः प्रासादः । 'संख्याया नदीगोदावरीभ्यां च' (वा ५०४७ )। पश्चनदम् । सप्तगोदावरम् । श्रच इति इति सूत्रगतः अप्शब्दः प्रपश्चितः । अथ धूशब्दान्तस्योदाहरति-राजधुरति । राज्ञो धूरिति विग्रहः । धूशब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः । 'परवलिङ्गम्' इति स्त्रीत्वम् । टाप् । अक्षे त्विति । अक्षसंबन्धिनी या धूस्तदन्ताद् . अकारप्रत्ययो न । अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदप्रयोश्चके आसज्येते तस्याक्षस्याग्रं धूः । अनेन 'अक्षे समासार्थे धुरो नाकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवम् 'ऋक्पूः' इति सूत्रे धूशब्दः प्रपञ्चितः । अथ पथिन्शब्दस्योदाहरति-सखिपथाविति । सस्वा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । सखिपथ इति पाठे तु सख्युः पन्थाः इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः । अच्प्रत्यन्वव । एतत्पूर्वादिति । प्रति, अनु, अव एतत्पूर्वकादित्यर्थः । प्रतिसाममिति । प्रतिगतं सामेति विग्रहः । अच्, 'नस्तद्धिते' इति टिलोपः । अनुसाममिति । अनुगतं सामेति विग्रहः। अच् , टिलोपः । अवसाममिति । अवकृष्टं सामेति विग्रहः । अच, टिलोपः । प्रतिलोममिति । प्रतिगतं लोमेति विग्रहः । अनुलोममिति । अनुगतं लोमेति विग्रहः । अवलोममिति । अवगतं लोमेति विग्रहः । सर्वत्राच् , टिलोपः । कृष्णोदगिति । नेदं वार्तिकम् । किंत्वच्प्रत्येत्यत्र अजिति योगविभागमूलाभियुक्तोक्तिरेषा । कृष्णेति । कृष्णा भूमिः यस्य, उदीची भूमिः यस्य, पाण्डुः भूमिः यस्य, द्वे भूमी यस्य, तिस्रो भूमयः यस्येति च विग्रहः । प्रासादः सर्वत्र विशेष्यः । संख्याया इति । इदमप्यजिति योगविभागमूलकमेव । संख्यायाः परो यो नदीशब्दः गोदावरीशब्दश्च ताभ्यामजिष्यत इत्यर्थः । पञ्चनदमिति । पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति । सप्तानां गोदावरीणां समाहार इति विग्रहः । 'नदीभिश्च' इत्यव्ययीभावः । अचि 'यस्येति च' इति लोपः। प्रतिसाममिति । अव्ययीभावः प्रादिसमासो बहुव्रीहिर्वा । एवमनुसामादावप्यूह्यम् । कृष्णोदगिति । 'अच्' इति योगविभागेन गतार्थमिदम् । एवमुत्तरवार्तिकमपि ।
-------
------