________________
२२० ]
सिद्धान्तकौमुदी। [सर्वसमासान्तप्रतीपम् । समीपन् । 'समापो देवयजन'मिति तु समा भापो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणानेह, स्वप् स्वपी। 'अवर्णान्तावा' (वा २०४५)। प्रेपम् । परेपम् । प्रापम् । परापम् । ६४२ ऊदनोदेशे । (६-३-६८) अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अते तु अक्षधूः । दृढधूरक्षः । सखिपथः, बहुव्रीहिः । अकारप्रत्ययः, ईत्त्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्रतीपमिति । प्रतिकूला आपो यस्मिन्निति विग्रहः । उपसर्गात् परत्वाद् ईत्त्वम् । समीपमिति । संगता आपो यस्मिन्निति विग्रहः । उपसर्गात् परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात् परत्वाभावाद् ईत्त्वं नेति भावः । देवा इज्यन्ते अस्मिन्निति देवयजनं यज्ञभूमिः । समाप इति पुंस्त्वं छान्दसम् । भाष्ये तु समाप ईत्त्वं नेत्युक्त्वा समापं नाम देवयजनमित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विव क्षितः, 'समीपसमृद्धि' इति निर्देशात् , समीपमिति भाष्ये उदाहरणाच । स्वबिति । शोभना आपो यस्येति विग्रहः । 'न पूजनात्' इति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्त्वं न । स्वपी इति । प्रथमाद्विवचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात् परस्यापत्य इत्त्वं वा वक्तव्यमित्यर्थः । प्रेपम् , प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपम् , परापमिति । परागता आपो यस्येति विग्रहः । ऊदनोदेशे । इत्त्वस्यापवादः । ऊत् स्यादिति। 'आदेः परस्य' इति ज्ञेयम् । अनूपो देश इति । अनुकूल! श्रापो यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । अनूप इत्यत्र ऊयोऽवग्रहणार्थ टी| चारणमिति भाष्यम् । बढचास्तु अनूपो गोमान् गोभिरित्यत्र नावगृह्णन्ति । तदेवम् ‘ऋक्पू:' मित्यादि । अन्तर्गताः, प्रतिकूलाः, संगताश्चापोऽस्मिन्निति विग्रहः । उपसर्गप्रहणं प्रादेरुपलक्षणार्थम् । समाप इति । अनुपसर्गत्वान्नेत्वमिति भावः । भाष्ये तु 'समाप ईत्त्वप्रतिषेधो वक्तव्यः' इत्युक्तम् । स च देवयजनरूपविशेषार्थपरः 'समीपसमृद्धि-' इति निर्देशात् , 'समीपम्' इति भाष्योदाहरणाचेति ज्ञेयम् । देवयजनमिति । देवा इज्यन्ते अस्मिन्निति व्युत्पत्त्या यज्ञभूमिः । स्वबिति । 'न पूजनात्' इति समासान्ताभावः । अवर्णान्तादेति । 'यन्तर्-' इति सूत्रे 'ईत्वमनवर्णात्' इति वक्तव्यम् । इह माभूत् 'प्रापं परापम्' इति भाष्योक्तेः, 'गतिश्च' इति सूत्रे 'प्रेपं परेपम्' इति भाष्योक्तश्चेति भावः । ऊदनोः । दीर्घोच्चारणं क्वचिच्छाखायामवप्रहार्थम् । बचास्तु 'अनूपे गोमान् गोभिः' इत्यत्रानूपशब्दं नावगृह्णन्ति । अनूप इति । अनुगता आपोऽस्मिनित्यनूपो देशः । 'जलप्रायमनूपं स्यात्' इत्यमरः ।