________________
प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१६ अर्धर्चः । अनृचबढचावभ्येतर्येव । नेह, अनुक्साम । बक्सूकम् । विष्णोः पूर्विष्णुपुरम् । क्रीवत्वं लोकात् । विमलापं सरः । ६४१ यन्तरुपसर्गेभ्योऽप ईत् । (६-३-६७) अप इति कृतसमासान्तस्यानुकरणम् । षष्टयर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्वयोर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । धुर् , पथिन् एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति । अक्षसंबन्धिनी या धूरित्यर्थः । सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया अनक्षे इति सप्तमी । अनक्षे इति च धूशब्देनैव संबध्यते, अन्यैरसंभवादिति भावः । अर्धर्च इति । ऋचोऽर्धमिति विग्रहः । 'अर्ध नपुंसकम्' इति समासः । अकारः समासान्तः । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृचबवृचावध्येतर्येवेति । अविद्यमानाः ऋचः यस्येति विग्रहः । अनृचः केवलयजुरध्येता । बहवः ऋचः यस्येति बढ्चः ऋक्छःखी इत्युदाहरणम् । अध्येतर्येवेति नियमस्य प्रयोजनमाहनेहेति । अनुकूसामेति । अविद्यमानाः ऋचः यस्मिन्निति विग्रहः । ऋच्यनध्यूढं प्रजापतेर्हृदयं साम । बवृक्सूक्तमिति । बहवः ऋचः यस्मिन्निति विग्रहः । अथ पूरशब्दान्तस्योदाहरति-विष्णोरिति । ननु पूर्शब्दस्य स्त्रीत्वात् 'परवल्लिङ्गम्' इति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आह-क्लीबत्वं लोकादिति । अथा शब्दान्तस्योदाहरति-विमलापं सर इति । विमलाः आपः यस्मिन्निति विग्रहः । द्वन्तरुप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर उपसर्ग एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याप्शब्द. स्येत्यर्थः । ईत्स्यादिति । 'आदेः परस्य' इति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोः पार्श्वयोर्गता आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो श्रुतमपि धुरैव संबध्यते सामर्थ्यात् , नान्यरित्याशयेन व्याचष्टे-अक्षे या धूरिति । तदन्तस्य तु नेति । सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया सप्तमी। तेन अक्षसंबन्धिनी या धूस्तदन्तस्य नेत्यर्थः । यद्यत्र 'अले पूर्वपदे न' इति व्याख्यायेत, तर्हि 'दृढधूरक्षः' इत्यत्र निषेधो न स्यात् । यदि तु 'अक्षे समासाथै न' इति व्याख्यायेत, तदा 'अक्षधूः' इत्यत्र न स्यात् । तस्मादुभयसंग्रहार्थमुक्तव्याख्यानमेव ज्यायः । अर्धर्च इति । अधं नपुंसकम्' इति समासः । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृगित्यादि । अनुक्तसमासान्तत्वात् 'शेषाद्विभाषा' इति कप्प्रत्यये 'अनृच्कम्' 'बहवृच्कम्' इत्यपि बोध्यम् । विष्णुपुरमिति । यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापि 'विष्णुपूः' इत्यनिष्टवारणाय सूत्रे पूर्ग्रहणम् । कृतसमासान्तस्येति । 'येन विधिः-' इति सूत्रे 'आपस्तिष्ठन्ति स्वापस्तिष्ठन्ति' इति भाष्यादिति भावः । अन्तरीप