________________
२१८ ] सिद्धान्तकौमुदी। [सर्वसमासान्त कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरग्यसकादौ पाठात्समासः ।
इति सर्वसमासशेषप्रकरणम् ।
अथ सर्वसमासान्तप्रकरणम् । २३ ।
६४० ऋक्पूरब्धूःपथामानक्षे । (५-४-७४) अ भनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् , अक्षे या धूस्तदन्तस्य तु न । दीपो रः' इति सूत्रे रप्रत्ययविधौ जसधातुना सह नसमासो निपातितः । तिङां तिति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात् तिङन्तस्य तिङन्तेन समासः । तिङ सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण कृन्त छिन्द्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-एहीडादय इति । अत्र सुपां तिडेत्यनेनैव तिनं सुबन्तेनेत्यस्यापि ग्रहणात् समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्तम् , उभयत्रापि सुप्तिङ्घटितत्वाविशेषादित्याहुः । अन्ये तु सुपां तित्यनेन सुबन्त. पूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिडां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां सर्वसमासशेषप्रकरणं समाप्तम् ।
अथ सर्वसमाससाधारणसमासान्ता निरूप्यन्ते-ऋक्पूरब्धः।छेद इति । सूत्रे अ इति लुप्तप्रथमान्तनिर्देश इति भावः । समासान्ता इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह-ऋगाद्यन्तस्येति । ऋक्, पुर्, अप, मिति । किब्वचिपच्छि-' इति वार्तिके 'नमिकम्पि-' इति सूत्रे च 'कटप्रूः' 'अजस्रम्' इति निपातनाद्धातुना समासः । पिबतखादतेति । 'श्राख्यातमाख्यातेन-' इति मयूरव्यंसकादौ पाठात्समासः ।
इति तत्त्वबोधिन्यां सर्वसमासशेषप्रकरणम् ।
ऋक्पूरब्धूः। 'अ' इति लुप्तप्रथमैकवचनान्तं, 'समासान्ताः' इति त्वधिकियते तदाह-समासस्याप्रत्ययोऽन्तावयव इति । 'अनः' इत्येतत् सामान्यतः