SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २२] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१७ दन्तोष्टम् इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्दबहुव्रीह्योरेव । तत्पुरुषस्य कचिदेवेत्युक्तम् । किं च । सुपा सुपा तिला नाम्ना धातुनाऽथ तिलां तिङा। सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥ सुपा सुपा, राजपुरुषः । तिडा, पर्यभूषयत् । नाना, कुम्भकास । धातुना, कटप्रूः, अजस्रम् । तिहां तिङा, पिबतखादता । खादतमोदता । तिहां सुपा । स्यैव प्रधानतया उभयपदार्थप्राधान्याभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति । 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इत्युक्तरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः । 'संख्यापूर्वो द्विगुः' इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । 'अनेकमन्यपदार्थे' इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तेरिति भावः। क्वचिदेवेति । ह्यह्नजात इत्यादावित्यर्थः । इत्युक्तमिति । भाष्यादाविति शेषः । किंचेति । अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां सुबन्तेन तिङन्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षड्विधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । राज्ञ इत्यस्य षष्ठयन्तस्य पुरुष इति सुबन्तेन समासः । तिङेति । सुपां तित्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति । 'सह सुपा' इत्यत्र सहेति योगविभागात् परीत सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुपां प्रातिपदिकेन समास उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति । 'उपपदमति' इति कुम्भस्येति षष्ठयन्तस्य कारेति प्रातिपदिकेन समासः, 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इत्युक्तरिति भावः । धातुनेति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्ररिति । 'क्विब्वचिप्रच्छ्यायतस्तुकटप्रजुश्रीणां दीर्घोऽसंप्र. सारणं च' इति वार्तिकेन 'प्र गतौ' इति धातुना समासो निपातितः, नतु तिबन्तेनोपपदसमासं इति भ्रमितव्यम् , विविधाविह सप्तमीनिर्देशाभावेन उपपदत्वाभावात् । अथ सुपां धातुनोदाहरणान्तरमाह-अजस्रमिति । 'नमिकम्पिस्म्यजसकमिहिंसद्वन्द्वबहुवीह्योरेवेति । अनेकग्रहणतदनुवृत्तिभ्यां तद्विधानाद्बहुपदसमासत्वं तयोरेव संभवतीति भावः । क्वचिदेवेति । यह्नजात इत्यादौ। नान्नेति । प्रातिपदिकेनेत्यर्थः । कुम्भकार इति । अत्र हि सुबुत्पत्तेः प्रागेवोपपदसमासः । कटप्रः । अजस्र
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy