________________
२१६ ] सिद्धान्तकौमुदी। [ सर्वसमासशेषराजन् अस् पुरुष सु इति । प्रविग्रहो निवसमासः, अस्वपदविग्रहो वा । समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि 'सह सुपा' (सू ६४६) इति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां वादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गम् इत्यायव्ययीभावे प्रतिमालादो तत्पुरुष, द्वित्राः इत्यादिबहुव्रीही, मिति । यद्यपि वृत्तावेव समुदायशक्त्या विशिष्टैकार्थप्रतिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपच्चितम् । तथाति समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानह इति । व्याकरणसंस्कृत वाभावादित्यर्थः । यथेत्युदाहरणप्रदर्शने । राज्ञः पुरुष इति । लौकिकविग्रहनक्यमिति शेषः । राजन् अस् पुरुष सु इति । अलौकिकविग्रहवाक्यमिति ३'षः । अविग्रहो नित्यसमास इति । लौकिकविग्रहवाक्यरहित इत्यर्थः, समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्य ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाभावाद् गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति प्रायस् इत्यव्ययं बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आहअव्ययीभावेति । बहिर्भूतानामपीति । समासानामिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्यक इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चेत्यनन्तरं श्रतमभावादिति पदम् अव्ययीभावे इत्यनन्तरं, तत्पुरुषे इत्यनन्तरं, बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मत्तगङ्गं देशः, लोहितगङ्गं देशः, इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थप्राधान्याभावादित्यर्थः । अतिमालादौ तत्पुरुष पूर्वपदार्थप्रधानतया उत्तरपदार्थप्राधान्याभावादित्यर्थः । द्वित्रा इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याभावादित्यर्थः । दन्तोष्टमित्यादिद्वन्द्वे समाहारच विशेषणयोगो न' इत्यभ्युपगमादित्येके । समर्थसत्रे कैयटस्त्वाह-- परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः । यथा राजपुरुष इत्यत्र राज. शब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते' इति । अविग्रह इति । लौकिकविग्रहरहित इत्यर्थः। अखपदेति । समस्यमानयावत्पदाघटित इत्यर्थः ।