SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ६५० ] सिद्धान्तकौमुदी । [तद्धितेषु स्वार्थिक । ब्रह्वल्पार्थाच्छस्कारकादन्यतरस्याम् । ( ५-४-४२) बहूनि ददाति बहुशः । श्रल्पानि अल्पशः । 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम् ' ( वा ३३३८ ) । नेह – बहूनि ददात्यनिष्टेषु, अल्पं ददात्याभ्युदयिकेषु । २११० संख्यैकचनाच्च वीप्सायाम् । ( ५-४-४३ ) द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । वस्तुतस्तु 'ज्यादयः प्राग्वुनः' इत्यादिपरिगणितेषु अनयोः प्रत्यययोरनन्तर्भावादनित्यत्वमेवानयो रुचितमित्याहुः । बह्वल्पार्थाच्छस्कारकादन्यतस्याम् । बह्वल्पार्थाच्च कारकाभिधायिनः शब्दात्स्वार्थे शस्प्रत्ययो वा स्यादित्यर्थः । बह्वल्पार्थादिति । वार्तिकमिदम् । मङ्गलामङ्गले गम्ये एवायं शसित्यर्थः । बहूनि ददात्यनिप्रेष्वितिं । भयादिनिमित्तेष्वित्यर्थः । श्रयं ददात्याभ्युदयिकेष्विति । श्रभ्युदयः श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । श्रभ्युदयिकेषु बहुदानं अनि अल्पदानं च मङ्गलम् । तद्विपरीतदानं तु श्रमङ्गलमिति भावः । अर्थग्रहणाद् भूरिशे ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम् । संख्यैकवचनाच्च । सङ्ख्या च एकवचनं चेति समाहारद्वन्द्वात्पञ्चमी । एकत्वविशिष्टोऽर्थ उच्यतेऽनेनेत्येकवचनः । एकत्वविशिष्टस्यार्थस्य वचन इति विग्रहः । सङ्ख्यावाचकात्तदन्यस्माच्चैकत्वविशिष्टवाचक त्कारकाभिधायिनः प्रातिपदिकाद् वीप्सायां शस् वेत्यर्थः । सङ्ख्यावाचिन उदाहरति द्वौ द्वौ ददातीति । 'नित्यवीप्सयोः' इति द्विर्वचनम् । द्विश इत्यत्र तु न । शसैव वीप्साया उक्तत्वात् । ‘तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस्प्रभृतयः प्राक् समासान्तेभ्यः' इति परिगणनात् शसादीनां डाच्पर्यन्तानामव्ययत्वम् । एकत्वविशिष्टवाचिन उदाहरति माषं माषं माषश इति । माषं माषमित्यनन्तरं ददातीति शेषः । माषमृदित्येतावदुक्ते प्रशस्तत्वानवगमाद्विभाषात्र नानुवर्तत इति सम्स्ना वेत्ययं विधिर्नित्य एव। उत्तरसूत्रस्थान्यतरस्यांग्रहणात्तु सुतरामिति भावः । बह्वल्पार्थात् । बहूनीति । बहुभ्यो ददाति बहुशः, अल्पेभ्योऽल्पश इत्याद्यपि बोध्यम् । बहु ल्पार्थात्किम्, गां ददाति । श्रवं ददाति । अर्थग्रहणात्पर्ययेभ्यो विशेषेभ्यश्च । भूरिशो ददाति । त्रिशः । कारकात्किम्, बहूनां स्वामी, अल्पानां स्वामी । मङ्गलवचनमिति । 'बहुषो ददात्याभ्युदयिकेषु कर्मसु । अल्पशो ददात्यनिष्टेषु' । श्रभ्युदयिकेषु बहुदानम् श्रनिष्टेष्वल्पदानं च मङ्गलम् । तद्वैपरीत्येन दानं तु मङ्गलं न भवतीत्याशयेनाह नेहेति । श्रनिष्टेष्विति । भयादिनिमित्तेषु दानेषु । श्रभ्युदयिकेष्विति । अभ्युदयप्रयोजनेष्वग्न्याधेयादिषु । मूलपुस्तके तु 'मङ्गलामङ्गलवचनम्' इति प्रायेण पठ्यते । तत्रामङ्गलग्रहणं वृथेत्याहुः । प्रायिकं चैतन्मङ्गलवचनमन्यत्र पि हि दृश्यते - 'अपेतापोढमुक्तपतितापत्रस्तैरल्पशः' इति । कारकत्वं तु समसनत्रियां प्रति पञ्चम्याः
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy