________________
प्रकरणम् ४१ ] बालमनोरमात्तत्वबोधिनीसहिता। [६५१ प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । 'संख्यैकवचनात्' किम्-घटं घटं शब्दः परिमाणविशेषवाची । प्रस्थश इति । प्रस्थं प्रस्थं ददातीति विग्रहः । ननु घटं घटं ददातीत्यत्रापि घटश इति स्यात् , घटशब्दस्याप्येकत्वविशिष्टार्थवाचकत्वात् । न च एकत्वविशिष्टस्यैवार्थस्य वाचक एकवचनशब्देन विवक्षितः । घटशब्दस्तु नैवम् । घटी घटा इत्यादौ द्वित्वबहुत्वविशिष्टवाचकत्वादिति वाच्यम् , एवं सति माषशः प्रस्थश इत्यत्रापि शसभावप्रसङ्गादित्यत आह परिमाणशब्दा वृत्तावेकार्था एवेति । अयमाशयः-समासादिवृत्तौ एकत्वविशिष्टस्यैवार्थस्य वाचका एकवचनशब्देन विवक्षिताः । तथाविधाश्च परिमाणशब्दा एव, नतु घटादिजातिशब्दा अपि । माषदातेत्युक्ते हि माषपरिमितस्य हिरण्यादेर्दातेति प्रतीयते, नतु माषाणामिति । अतो माषशब्दोऽयं भवति वृत्तावेकत्वविशिष्टार्थनियतः । एवं प्रस्थादिशब्दोऽपि । घटशब्दस्तु नैवम् , घटदातेत्युक्ते घटानां दातेत्यपि प्रतीतेः। एतदेवाभिप्रेत्य प्रत्युदाहरति घटं घटमिति । एतत्सर्वं जयादित्यमतम् । वामनस्तु उक्तनियमे प्रमाणाभावाद् जातिशब्देभ्योऽपि शस् भवत्येव, एकवचनग्रहणं तु घटौ घटौ ददातीत्यादौ शसभावार्थमित्याह । एकैकशः पितृसंयुक्तानित्यत्र तु शसैव वीप्साया उक्तत्वाद् द्विवचनमार्षमिति हरदत्तः। प्रत्याहाराह्निकभाष्ये “एकैकशः सहस्रकृत्वः' कर्मत्वात्तदभिधायकत्वाचाल्पशब्दस्य । तथा च व्याचक्षते-अल्पा पञ्चमी समस्यत इति । आचार्येणेति शेषः । परिमाणशब्दा इति । तथा चैकवचनग्रहणेन एकोऽर्थ उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्यन्त इति भावः । माष माषमिति । माषदातेत्युक्त माषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः। एवं प्रस्थादिरपि। घटादयस्तु नैवम् । घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानत्वात् । अतएव च प्रत्युदाहरति घटं घटमिति । घटादयो हि जातिशब्दा नैकार्था भवन्ति, जातियोगस्यैकाने. कसाधारणत्वात् , किं त्वभेदैकत्वसंख्यामुपाददते । एतच्च सर्व जयादित्यमतानुसारेणोक्तम् । वामनमते जातिशब्देभ्योऽपि भवत्येव । तथा च 'जश्शसोः' इति सूत्रे तेनोक्तम् 'जसा सह चरितस्य शसो ग्रहणादिह' न भवति । 'कुण्डशो ददाति वनशः प्रविशति' इति, तस्यायमाशयः-जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति । अथ कथम् 'एकैकशः पितृसंयुक्वान्' इति द्विवचनशसोः सह प्रयोग इति चेत् । छन्दोवदृषयः कुर्वन्तीति हरदत्तः । अतएव 'सुपः' इति सूत्रे एकैकश इति प्राचो प्रन्यः प्रामादिक इत्यवोचामेति मनोरमाया स्थितम् । वस्तुतस्तु एकैकमेव एकैकशः । स्वार्थे शस्, न तु वीप्सायाम् , एकां कपिला