________________
६५२ ]
सिद्धान्तकौमुदी। [तद्धितषु स्वार्थिक ददाति । 'वीप्सायाम' किम्-द्वौ ददाति । 'कारकात्' इत्येव । द्वयोर्द्वयोः स्वामी । २१११ प्रतियोगे पश्चम्यास्तसिः । (५-४-४४) प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । 'श्राद्यादिभ्य उपसंख्यानम् (वा ३३३३)। श्रादौ श्रादितः । मध्यतः। अन्ततः । पृष्ठतः। पार्श्वतः । प्राकृतिगणोऽयम् । स्वरेण स्वरतः। वर्णतः । २११२ अपादाने चाहीयरुहोः । (५-४-४५) अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । 'प्रहीयरुहोः' किम्स्वर्गाद्धीयते । पर्वतादवरोहति । २११३ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः। (५-४-४६) अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । इति भाष्यप्रयोगात् स्वार्थिकशसा समाधेयमित्यन्ये । प्रतियोगे । विहितेति । 'प्रतिः प्रतिनिधिप्नतिदानयोः' इति प्रतेः कर्मप्रवचनीयत्वे तद्योगे 'प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी विहितत्यर्थः । प्रद्यनः कृष्णतः प्रतीति । कृष्णस्य प्रति. निधिरित्यर्थः । आद्यादिभ्य इति । अयं सार्वविमक्तिकस्तसिः। अपादाने चाहीयरुहोः। अहीयरहोरिति छेदः । हीयते इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य हीयेत्यनुकरणम् । हीयरुहोः संबन्धि यन्न भवति तस्मिन्नपादाने इत्यर्थः । अतिग्रहाव्यथन । अतिक्रम्य ग्रह इति । लोकवृत्तमतिकम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम् , तेन हेतुना इतर. विलक्षणत्वेन दृश्यत इत्यर्थः । फलितमाह अन्यानतिक्रम्य वर्तत इति । 'व्यथ मेकैकशः सहस्रकृत्वो दत्त्वा' इति भाष्यादिति 'तान्येकवचन-' इत्यादिसूत्रे वक्ष्यामः । द्वौ ददातीति । कथं तर्हि-'अवतानाममन्त्राणां जातिमात्रोपजोविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते' इति । न ह्यत्र वीप्सास्ति, नापि कारकत्वमिति चेत् । अत्राहुः-सहस्रं सहस्रं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः । तथा च समवायक्रियां प्रति कर्तृत्वं वीप्सा चास्त्येवेति । एतेन 'एकश एकवचनादिसंज्ञानि म्युः' इति व्याख्यातम् । एकशब्दार्थस्यास्तिक्रियां प्रति कर्तृत्वात् । कृष्णतः प्रतीति । 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति कर्मप्रवचनीयसंज्ञायां 'प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी । आद्यादिभ्य इति । 'तस्यादित उदात्तमर्धह्रस्वम्' इत्येतदत्र लिङ्गम् । ग्रामत इति । एवम् अध्ययनात्पराजयते अध्ययनत इत्याद्यपि बोध्यम् । अतिगृह्यत इति । अन्यातिक्रमेण लौकह्यत इत्यर्थः । फलितमाह अन्यानतिक्रम्य