SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५३ वृत्तेन न चलतीत्यर्थः । क्षेपे-वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । 'प्रकर्तरि' इति किम्-देवदत्तेन चिप्सः । २११४ हीयमानपापयोगाश्च । (५-४-४७) हीयमानपापयुकादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । 'अकर्तरि' इति किम्-देवदत्तेन हीयते । २११५ षष्ठया व्याश्रये । (५-४-४८) षष्ठयन्ताद्वा तसिः स्यामानापक्षसमाश्रयणे । देवा अर्जुनतोऽ. भवन् । श्रादित्याः कर्णतोऽभवन् । अर्जुनस्य कर्णस्य पचे इत्यर्थः। 'व्याश्रये' किम्-वृक्षस्य शाखा । २११६ रोगाश्चापनयने। (५-४-४६) रोगवाचिनः षष्ठयन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकात: कुहा प्रतीकारमस्याः कुर्वित्यर्थः । 'अपनयने' किम्-प्रवाहिकायाः प्रकोपनं करोति । २११७ कृभ्वस्तियोगे संपद्यकर्तरि च्विः । (५-४-५०) 'प्रभूतततद्भाव इति वक्तव्यम्' (वा३३४०) भयसंचलनयो.' इति चलनार्थाद् ल्युटि व्यथनशब्दः, तदाह अव्यथनमचलनमिति । क्षेप इति । उदाह्रियत इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच। हीयमानेति । हीयमानयुक्तात् पापयुक्ताश्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्ध किमर्थमिदमित्यत आह क्षेपस्याविवक्षायामिति । तत्त्वकथन इत्यर्थः । षष्ठया व्याश्रये । नानापक्षसमाश्रयण इति । सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति । अर्जुनस्य पक्षे देवा आसमित्यर्थः। आदित्याः कर्णतोऽभवन्निति । सूर्याः कर्णस्य पक्षे आसन्नित्यर्थः। रोगाश्च । रोगस्य प्रतीकारः चिकित्सा । प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः । कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः । एवं च यत्र प्रकृतिखरूपमेव विकाररूपमापद्यमानं विकाराभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते । संपद्यकर्तरीत्येकं पदम्। संपदनं सम्पद्यः। संपूर्वकात्पदधातोरत एव निपातनाद् भावे कृत्संज्ञः शः, दिवादित्वात् श्यन् । संपद्यस्य कर्तेति षष्ठीसमासः । संपद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम् , 'अभूततद्भावे-' इति वार्तिकात् प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, नतु प्रकृतिवाचकात् , व्याख्यानात् । तथा वर्तत इति । प्रवाहिकात इति । प्रच्छर्दिकातः कुर्वित्याद्यप्युदाहरणम् । प्रवाहिका विषूचिका । प्रच्छर्दिका तु वमनव्याधिः । कृभ्वस्तियोगे । योग इति किम्, अशक्तः शुक्लो जायते । संपद्यकर्तरीति । संपद्यश्चासौ कर्ता चेति विग्रहः । 'पाघ्राध्माधेदृशः' इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy