________________
६५४ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकविकारारमतां प्राप्नुवत्या प्रकृतौ वर्तमानाद्विकारशब्दारस्वार्थे विर्वा स्यात्करोत्यादिभिर्योगे । २११८ अस्य च्वौ। (७-४-३२) अवर्णस्य ईत्स्यात् चौ। वेर्लोपः। च्यन्तस्वादव्ययस्वम् । अकृष्णः कृष्णः संपद्यते, तं करोति, कृष्णीकरोति। ब्रह्मीभवति । गङ्गीस्यात् । 'अव्ययस्य च्चावीत्वं नेति वाच्यम्' ( वा ५०५२ )। दोषाभूतम् अहः। दिवाभूता रात्रिः। एतच्च 'अव्ययीभावश्च' (सू ४५१) च फलितमाह विकारात्मतामित्यादिना । वर्तमानादिति । विकारवाचकशब्दस्य प्रकृती गौण्या वृत्त्या विद्यमानत्वं बोध्यम् । करोत्यादिभिरिति । 'डुकृञ् करणे, भू सत्तायाम , अस भुवि' इति धातुभिर्योगे सतीत्यर्थः । चिप्रत्यये चकार इत्, इकार उच्चारणार्थः । अस्य च्वौ। ईत्स्यादिति । 'ई घ्राध्मो.' इत्यतः तदनुवृत्तेरिति भावः । वेर्लोप इति । 'वेरपृक्तस्य' इत्यनेनेति शेषः । च्व्यन्तत्वादव्ययत्वमिति । 'ऊर्यादिविडाचश्च' इति निपातत्वात् स्वरादिनिपातमित्यव्ययत्वमित्यर्थः । तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस्त्रभृतयः प्राक् समासान्तेभ्यः' इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृज्योगे उदाहरति कृष्ण इति । वस्तुतः अकृष्णः सन् वेषादिना कृष्णभावं प्राप्नोतीत्यर्थः। तं करोतीति । अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः। कृष्णीकरोतीति । अत्र वस्तुतः अकृष्णो नटः प्रकृतिभूतः । स तावत्कृष्णभावं विकारं प्राप्नुवन् सम्पद्यमानत्वात् सम्पद्यकर्ता भवतीति तत्राभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः । तस्मात् विप्रत्ययः, चकार इत्, इकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्त्वम् । 'वेरपृक्तस्य' इति कारलोपः। कृष्णीति इकारान्तमव्ययम् । ब्रह्मीभव. तीति । अब्रह्म ब्रह्म संपद्यमानं भवतीत्यर्थः। ब्रह्मशब्दात् च्वः । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वान्नलोपः। ईत्वमिति भावः । अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिः, नतु सुबन्तादिति नियमः। अतो न च्वेः प्रातिपदिकादुत्पत्तिः। किंतु सुबन्तादेवेति बोध्यम् । अत एव अगौ!ः समपद्यत गोऽभवदित्यत्र च्यन्तस्य गोशब्दस्य 'एङः पदान्तात्-' इति पररूपमुदाहृतं भाष्ये संगच्छत इत्यलम् । गङ्गी. स्यादिति । अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः । 'अस्य च्वौ' इति ईत्त्वम् । दोषाभूतम् अहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रात्रिरित्यर्थे वर्तते । अदोषाभूतमहः बहुलमेघावरणान्धकाराद् दोषाभूतमित्यर्थः । दिवाभूता रात्रिरिति । दिवेत्याकारान्तमव्ययम् अहनीत्यर्थे । इह तु अहरित्यर्थे वर्तते । चन्द्रिकातिशयवशाद् अहर्भूतेत्यर्थः। ननु 'अव्ययस्य च्वावीत्त्वं न' इति दिवादित्वात् श्यन्निति हरदत्तः। वक्तव्यमिति । वृत्तिकारस्तु 'अभूततद्भावे' इति