________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५५ इति सूत्रे भाष्ये उनम्। २११६ क्यच्च्योश्च । (६-४-१५२ ) हलः परस्यापत्ययकारस्य लोपः स्यात्क्ये च्वौ च परतः। गार्गीभवति । २१२० च्वौ च । (७-४-१६) च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । 'अव्ययस्य दीर्घत्वं न' इति केचित् , तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु महाविभाषया वेभावात्सिद्धम् । 'स्वस्तीस्यात्' इत्यपि पक्ष स्यादिति चेदस्तु । यदि नेष्यते तीनभिधानात् घिरेव नोत्पद्यत इत्यस्तु । 'रीतः' (सू १२३४)। मात्रीकरोति । २१२१ अर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । (५-४-५१) एषां लोपः स्यात् च्चि श्व । अरूकरोति । उन्मनीस्यात् । उच्चस्करोति । उच्चती. वार्तिकम् 'अस्य च्यौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह एतच्चेति । गार्गीभवतीति वक्ष्यन्नाह क्यच योश्च । 'अल्लोपोऽनः' इत्यस्माद् 'लोप' इति, 'हलस्तद्धितस्य' इत्यस्माद् 'हलः' इति, 'सूर्यतिष्य-' इत्यतः 'य' इति, 'आपत्यस्य च-' इत्यस्माद् 'यापत्य स्य' इति चान वर्तते, तदाह हलः परस्येति । गार्गीभवतीति । अगार्यो गार्यः संपर मानो भवतीत्यर्थः । यजन्तात् च्यौ यकारस्य लोपः । वेर्लोपः। यकारस्य तु 'आपत्यस्य च-' इति लोपो न संभवति, ईकारेण व्यवधानात् । 'हलस्तद्वितस्य' इत्यपि न स भवति। तस्य इति अर्थवत्येव विधानात् । अतो वचनमिति भावः । अथ शुचीभव गीति वक्ष्यन्नाह च्वौ च । दीर्घः स्यादिति । 'अकृत्सार्वधातुकयो:-' इत्यतः तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्य 'च्वौ च' इति दी| नेत्यर्थः । न स्वस्ति स्यादित्यत्र च्चौ न दीर्घ इति भावः। तन्निर्मलमिति । भाष्यादावदृष्ट वादिति भावः। तर्हि स्वस्ति स्यादिति न स्याद् दीर्घप्रसङ्गादित्यत आह स्वस्तियादिति त्विति । ननु महाविभाषया दीर्घाभावे स्वस्ति स्यादिति सिद्धावपि कदाचित् स्वस्तीस्यादिति दी| दुर्वार इति शङ्कते स्वस्ती. स्यादित्यपि पक्षे सादिति । इष्टापत्तिरित्याह अस्त्विति । दीर्घतदभावाभ्यां रूपद्वयमिति शेषः । प्र माणिकत्वादुभयमप्यादर्तव्यमिति भावः । ननु शिष्टानङ्गीकारात् कथं दीर्घपाठादर इत्य। श्राह यदि नेष्यत इत्यादि। मातृशब्दात् विप्रत्यये विशेष माह रीत इति । अरुर्मनश्चक्षुः । एषामिति । अरुस् , मनस्, चक्षुस् , चेतस् , रहस् रजस् इत्येतेषामित्यर्थः। पूर्वेणैव प्रत्ययसिद्धस्तत्संनियोगेन सूत्रमध्ये प्रचिक्षेप । व्यन्तत्वादिति । तस्य निपातत्वात् 'स्वरादिनिपातमव्ययम्' इत्यनेनेत्यर्थः । गार्गीभवतीति । इह यान्तात् सुपि ततः विप्रत्यये कृते 'आपत्यस्य च तद्धितेऽनाति' इति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम् । अरुमनः । विश्वेति । पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्संनियोग