SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६५६ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक करोति । विरहीकरोति । विरजीकरोति । २१२२ विभाषा साति कात्स्न्थें । (५-४-५२) विविषये सातिर्वा स्वारसाकल्ये । २१२३ सात्पदाद्योः। (८-३-१११) सस्य षत्वं न स्यात् । दधि सिञ्चति । कृरखं शस्त्रमग्निः संपद्यतेऽनि. सागवति । अग्नीभवति । महाविभाषया वाक्यमपि । 'कास्न्ये किम्-एकदेशेन शुक्लीभवति पटः । २१२४ अभिविधौ संपदा च । (५-४-५३) संपदा कृभ्वस्तिभिश्च योगे सातिर्वा स्याध्याप्तौ । पक्षे कृम्वस्तियोगे चिः । संपदा तु वाक्यमेव । अग्निसारसंपद्यते, अग्निसाद्भवति शस्त्रम् , अनीभवति । जलसात्अन्त्यलोप इह विधीयते। अरूकरोतीति । अनरुः अरुः संपद्यते तत् करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्य 'च्चौ च' इति दीर्घः। उन्मनीकरोतीति । अनुन्मना उन्मनाः संपद्यते तं करोतीत्यर्थः । च्चौ अन्यलोपः, ईत्त्वं च । उच्चतू. करोतीति । अनुच्चक्षुः उच्चक्षुः संपद्यते, तं करोतीत्यर्थः। च्वौ अन्त्यलोपो दीर्घश्च। उच्चतीकरोतीति । अनुच्छेता उच्चताः संपद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्टं रहो विरहः । अविरहो विरहः संपद्यते तत् करोतीत्यर्थः । च्चौ अन्त्यलोपः, ईत्त्वं च । विरजीकरो तीति। अविरजा विरजाः संपद्यते तं करोतीत्यर्थः । अन्त्यलोपे 'अस्य च्चौ' ईत्त्वं च । विभाषा साति। सातीति लुप्तप्रथमाकम् । विविषय इति । अभूततद्भावे संपद्यकर्तरि कृभ्वस्तियोग इत्यर्थः । सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे सस्य षत्वं न स्यादिति । सातेरवयवस्य पदादेश्च सस्य षत्वं न स्यादित्यर्थः । 'न रपरसृपि-' इत्यतो 'न' इति 'अपदान्तस्य-' इत्यतो 'मूर्धन्य' इति चानुवर्तत इति भावः । पदादेरुदाहरति दधि सिञ्चतीति । षिचिधातोः 'धात्वादेः षः सः' इति षस्य सः। तस्य 'आदेशप्रत्यययोः' इति षत्वे प्राप्ते अनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः । अग्निसादित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्ते अनेन निषेधः। अग्नीभवतीति । च्चिप्रत्यये 'चौ च' इति दीर्घः । महाविभाषयेति । 'समर्थानाम्-' इत्यतो वाग्रहणानुवृत्तरित्यर्थः। महाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्चेः समावेशार्थम् । अभिविधौ संपदा च । चकारः कृभ्वस्तिसमुच्चयार्थः। तदाह संपदा कृभ्वस्तिभिश्चेति । अभिविधावित्यस्य विवरणं व्याप्ताविति । पक्ष इति । सातिप्रत्ययाभावपक्षे कृभ्वस्तियोगे पूर्वेण शिष्टत्वार्थः । विभाषा साति । विभाष्यते विकल्प्यत इति विभाषा । 'गुरोश्च हलः' इत्यकारप्रत्ययः। ततः टाप्। न त्विदमव्ययम् , 'द्वयोर्विभाषयोर्मध्ये' ‘पयसस्तु विभाषया' इत्यादौ विभक्तेर्दर्शनात् । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः । अग्निसाद्भवति
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy