________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५७ संपद्यते, जलीभवति लवणम् । 'एकस्या व्यक्तः सर्वावयवावच्छेदेनान्यथाभावः कास्यम्' । 'बहूनां व्यक्तीनां किशिदवयवावच्छेदेनान्यथात्वं त्वमिविधिः'।२१२५ तदधीनवचने । (५-४-५४ ) सातिः स्थास्कृभ्वस्तिभिः संपदा च योगे। राजसास्करोति, राजसास्संपद्यते । राजाधीनमित्यर्थः। २१२६ देये त्रा च। (५-४-५५) तदधीने देये वा स्यात्सातिश्च कृभ्वादियोगे। विप्राधीनं देयं करोति । विप्रनाकरोति । विप्रनासंपचते । पक्षे विप्रसास्करोति । 'देये' किम्राजसाद्भवति राष्ट्रम् । २१२७ देवमनुष्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तम्योबहुलम् । (५-४-५६) एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा। बहुलोकेरन्यत्रापि । बहुना जीवतो मनः। २१२८ अव्यक्तानुकरणाद यजवरार्धादनिती डान् । (५-४-५७) यच् अवरं न्यूनम् , न तु ततोन्यूनम् , 'अनेकाच्' इति यावत् । तादृशमधं यस्य तस्माड्डाच् चिः, संपदा योगे तु सातेरभावे वाक्यमेव, नतु च्विः, कृभ्वस्तियोग एत तद्विधानादित्यर्थः । सम्पदा योगे उदाहरति अग्निसात्संपद्यत इति । कृभ्वस्तियोगे उदाहरति अग्निसाद्भवति शस्त्रमिति । अग्निसात्करोति अग्निसात्स्यादित्यप्युदाहार्यम् । कात्याभिविध्योर्विशेषमाह एकस्या व्यक्तरित्यादिना । तदधीन. वचने। शेषपूरणेन सूत्रं व्याचष्टे सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृत्तमिति भावः । देये त्रा च । 'तदधीनवचने' इत्येवानुवर्तते। कृभ्वादियोग इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः । देवमनुष्यपुरुषपुरुमर्येभ्यो द्वितीयासप्तम्योर्बहुलम् । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मर्त्य इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् । 'साति' इति 'कृभ्वस्तियोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति,। देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा पुरुषत्रा । पुरुशब्दो बहुलपर्यायः । पुरुत्रा, मयंत्रा । अन्यत्रापीति । देवादिभ्यो. ऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनः बहुषु विषयेषु गच्छति बहून् व्याप्नोतीत्यर्थः । अव्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णेविशेषा न व्यज्यन्ते सः अव्यक्तो ध्वनिः । तस्यानुकरणम् अव्यक्तानुकरणम् । धजवरार्धशब्दं व्याचष्टे द्यजिति । द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे शस्त्रमिति । जातावेकवचनम् । सर्वाणि शस्त्राणीत्यर्थः । वन्दे रमे वेति । देवान् वन्दे देवत्रा वन्दे । देवेषु रमे देवत्रा रमे इत्यर्थोऽत्र पयेवसन्नः । एवं मनुष्यान् गच्छति मनुष्यत्रा गच्छति। मनुष्येषु वसति मनुष्यत्रा वसति। पुरुषान् गच्छति पुरुषत्रा गच्छति । पुरुषेषु वसति पुरुषत्रा वसति । पुरुशब्दो बहुपर्यायः । पुरून् गच्छति पुरुषु वसति वा