________________
६५८ ]
सिद्धान्तकौमुदी ।
1
[तद्धितेषु स्वार्थिक. स्यात्कृभ्वस्तिभिर्योगे । 'डाचि विवक्षिते द्वे बहुलम् ' ( वा ४६६७) 'नित्यमाग्रेडिते डाचीति वक्तव्यम्' ( वा ३६३८ ) । डारूपरं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । 'श्रव्यक्तानुकरणात्' किम् - ईषत्करोति । 'यजवराधत्' किम् - श्रत्करोति । 'अवर' इति किम् - घरटघरटाकरोति । त्रपटनपटाकरोति 'श्रनेकाचः' इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । न्यूनमिति । यजेव अवरं न्यून संख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाच्कमित्यर्थः । फलितमाह अनेकाजिति यावदिति । तादृशमर्धमिति । अनेकाच्कम् अर्ध भागो यस्य तद् व्यजवरार्धम् । तस्मादित्यर्थः । कृभ्वस्तिभिर्योग इति । मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । तथा च अनेकाच्कभागयुक्तादव्यक्तानुकरणात् शब्दात् कृभ्वस्तियोगे डाच् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणाद् डाचमुदाहरिष्यन् पटच्छब्दस्य द्विर्वचनमाह डाचि विवक्षिते द्वे बहुलमिति । यद्यपि 'सर्वस्य द्वे' इति प्रकरणे 'डाचि द्वे भवत इति वक्तव्यम्' इत्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नार्थः, तथा स डाचि सति पटच्छब्दस्य द्विर्वचनम्, सति च द्विर्वचने अर्धस्यानेकाच्त्वाद् डाजित्यन्योन्याश्रयापत्तेः । अतः डाचि विवक्षिते इत्याश्रितम् । एवं च डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाद् डाच् सूपपादः । पटत् पटत् करोतीति स्थिते प्रक्रियां दर्शयति नित्यमाम्रेडिते डाचीति । ‘एकः पूर्वपरयोः' इत्यधिकारे पररूपप्रकरणे 'नाम्रेडितस्यान्त्यस्य तु वा' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । डाच्परमिति । डाच् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपटत् आ करोति इति स्थिते डित्वाट्टिलोपे पटपटा करोतीति रूपमित्यर्थः । अवरेति किमिति । यजर्धादित्येवास्त्वित्यर्थः । घरटघरटाकरोतीति । घरटत् इत्यव्यक्तानुकरणाद् डाचि द्विर्वचने पररूपे टिलोपे रूपम् । द्यर्धादित्युक्ते तु अर्धभागस्य घरटत् इत्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः । अनेकाच इत्येवेति । द्यजवरार्धादित्यपनीय 'अव्यक्तानुकरणादनेकाचोऽनितौ डाच्' इत्येव सूत्रयितुमुचितमित्यर्थः । एवं हीति । 'अनेकाचोऽनितौ' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रापुरुत्रा । मर्त्यान्मर्त्येषु वा मर्त्यत्रा । डाचिविवक्षित इति । परसप्तम्यां त्वन्योन्याश्रयः स्यात् । डाचि कृते द्वित्वे सति व्यजवरार्धता, तस्यां च सत्यां डाजिति भावः । खरटखरटाकरोतीति । द्वित्वपररूपादि प्राग्वत् । व्यजर्घादित्युक्ते त्वत्र डाच् न स्यात् । न ह्यत्रार्धं यच् किं तु त्र्यच् । श्रनेकाच इत्येवेति । 'द्यजवरार्धात्' इत्य