________________
प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५६ 'अनितौ' किम्-पटिति करोति । २१२६ को द्वितीयतृतीयशम्बबीजात्कृषौ । (५-४-५८) द्वितीयादिभ्यो डास्यास्कृत एव योगे कर्षणेऽर्थे । बहुलोनेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति । द्वितीयाकरोति । तृतीयाकरोति । शंबशब्दः प्रतिलोमे । अनुलोमं कृष्ट क्षेत्रं पुनः प्रतिलोमं कर्षति, शंबाकरोति । बीजेन सह कर्षति, बीजाकरोति । २१३० संख्यायाश्च गुणान्तायाः । (५-४-५६) कृमो योगे कृषौ डास्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः । २१३१ समयाञ्च यापनायाम् । (५-४-६०) 'कृषौ' इति निवृत्तम् । कृमो योगे डास्यात् । समयाकरोति । कालं यापयतीत्यर्थः। २१३२ सपत्त्रनिष्पत्त्राद. गेव अनेकाच्कत्वाद् डाच् संभवतीति 'डाचि परतो द्वित्वम्' इति वक्तुं शक्यमिति भावः । पटितीति । 'अव्यक्तानुकरणस्य' इति पररूपम् । कृओ द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृन एव योग इति । कृग्रहणात् कृभ्वस्ति नुवर्तत इति भावः । 'मद्रात्परिवापणे इति यावत् कृत्र इत्यनुवर्तते । बहुलोनेरिति । 'डाचि बहुलं द्वे भवतः' इति बहुलग्रहणाद् अव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोम इति । वर्तत इति शेषः। बीजेन सह कर्षतीति । श्रादौ कृष्टक्षेत्र कुलत्थादिबीजानां वापे कृते पुनः बीजैः सह कर्षणं प्रसिद्धम् । 'कर्षात्वत-' इति सूत्रभाष्यप्रामाण्यात् कृषधातुः शब्विकरणोऽस्ति, तेन शविकरणत्वात् कृषतीत्येव युक्तमिति न शङ्कयम् । संख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे कृतो योग इति। समयाच्च । 'कृषौ' इति निवृत्तम् । समयशब्दाद् यापनायां गम्यमानायां डाजित्यर्थः। समयाकरोतीति । करोतिरिह यापनायामित्याह यापयतीति । अतिक्रान्तं करोतीत्यर्थः। अद्येदं कर्तव्यमित्युक्ते विघ्नं कश्चिदागद्य कालक्षेपं करोतीति यावत्। सपत्र । सपत्त्रशब्दाद् निष्पत्त्रशब्दाच्च अतिव्यधने डाजित्यर्थः । 'व्यध ताडने' पनीयेत्यर्थः । पटितीति । 'अव्यक्तानुकरणस्यात इतौ' इति पररूपम् । नन्वत्र करोतिना योगो दुर्लभः, इतिशब्देन व्यवधानात् । तथा चानिताविति व्यर्थमिति चेत् । अत्राहुः-इतिशब्देन करोत्यर्थगतप्रकार एव परामृश्यते इत्येवंप्रकारेण करोतीति । तथा च पटच्छब्दस्यार्थद्वारा योगोऽस्त्येवेति । बीजेन सहेति । ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत् । अत्राहुः-वृत्तिविषये बीजशब्दो बीजावापसहिते विलखने वर्तते। तथा च बीजावापसहितं विलेखनं करोतीत्यर्थ इति । समयाञ्च । कालं यापयतीत्यर्थ इति ।