________________
६६० ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकतिव्यधने । (५-४-६१) सपस्त्राकरोति मृगम् । सपुङ्खशरप्रवेशेन सपत्त्रं करोतीत्यर्थः । निष्पत्त्राकरोति । सपुङ्खस्य शरस्यापरपावं निर्गमनानिष्पत्त्रं करोतीत्यर्थः । प्रतिव्यधने' किम्-सपस्त्रं निष्पत्त्रं वा करोति भूतलम् । २१३३ निष्कुलानिष्कोषणे । (५-४-६२) निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहिर्डाच् । २१३४ सुखप्रियादानुलोम्ये । (५-४-६३ ) सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणे. नानन्दयतीत्यर्थः । २१३५ दुःखात्प्रातिलोम्ये। (५-४-६४) दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः । २१३६ शूलात्पाके । (५-४-६५) शूला. करोति मांसम् । शूलेन पचतीत्यर्थः । २१३७ सत्यादशपथे। (५-४-६६) सस्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं चतुर्थान्तः। अतिक्रम्य वेधः अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रम् , शराणां पुतगतो बर्हः । भूतलमिति । पुतपर्यन्तं पुजवर्ज वा शरप्रवेशनेन सपत्त्रं निष्पत्त्रं वा भूतलं करोतीत्यर्थः । निष्कुलान्निष्कोषणे । डाजिति शेषः । निष्कोषणम् अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गत कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह निर्गत. मित्यादि । सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तनमानुलोम्यम् । सुखाकरोति । प्रिया. करोति गुरुमिति । चित्तानुवर्तनेन गुरुं सुखसंपन्नं प्रियसंपन्नं च करोतीत्यर्थः । तदाह अनुकूलेति । दुःखात् । डाजिति शेषः। आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् । शूलात्पाके । डाजति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते। तदाह शूलेन पचतीत्यर्थ इति । सत्यादशपथे । 'कर्तव्यस्यावसरप्राप्तिः समयस्तस्यातिक्रमणं यापना' इति वृत्तिप्रन्थमुपादाय हरदत्त
आह–'अद्य मे पारवश्यम् , श्वः परश्वो वा अस्य समय इत्येवं बहुषु दिवसेषु य आह स एवमुच्यते' इति । सपत्त्रनिष्पत्त्रात् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रम् , शराणां पुतगतो बर्हः । सपत्नं निष्पत्त्रं वा करोतीति । पत्त्राणि पनि तत्सहितं तद्रहितं वेति यथासम्भवमर्थः । निष्कुलात् । निष्कोषणमन्तरवयवानां बहिनिष्कासनम् । निष्कोषणे किम् , निष्कुलं करोति शत्रुम् । शूलापाके । पाके किम् , शूलं करोति कदन्नम् , शूलमुदररोगः । सत्यादशपथे । सासु साधु सत्यम् । 'तत्र साधुः' इति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद् यः। अन्तोदात्तोऽयम् ।
१'अतिव्यथने' इति बहुत्र पाठः ।