________________
प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४९
1
।
स्यात् । ‘ सम्देशवाग्बाचिकं स्यात्' इत्यमरः । २१०४ तद्युक्तात्कर्मणोऽण् । ( ५-४-३६ ) कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः । २१०५ श्रोषधेर जातौ । (५-४-३७ ) स्वार्थेऽण् । औषधं विवति । 'अजातो' किम्श्रोषधयः क्षेत्रे रूढाः । २१०६ प्रशादिभ्यश्च । ( ५-४-३८ ) प्रज्ञ एव प्राज्ञः । प्राशी स्त्री । दैवतः । बाम्धवः । २१०७ मृदस्तिकन् । ( ५-४-३६) मृदेव मृत्तिका । २१०८ सनौ प्रशंसायाम् । ( ५-४-४०) रूपपोऽपवादः । प्रशस्ता मृत् मृस्सा मृत्स्ना । उत्तरसूत्रे श्रन्यतरस्यांग्रहणावित्योऽयम् । २१०६ अर्थो यस्या इति विग्रहः, तदाह संदिष्टार्थायामिति । तद्युक्तात् । संदिष्टाया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे श्ररित्यर्थः । कर्मैव कार्मणमिति । अन्निति प्रकृतिभावान टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते, तदाह वाचिकं श्रुत्वेति । ओषधेरजातौ । औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्टं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति । उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् । प्रज्ञादिभ्यश्च । स्वार्थे अरिणति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः, 'इगुपधज्ञा-' इति कः । प्रज्ञशब्दात्स्वार्थे अण् । प्राशीति । श्ररणन्तत्वाद् ङीप् । प्रज्ञा अस्यास्तीति विग्रहे तु 'प्रज्ञाश्रद्धाचभ्यः -' इति णान्तात् टापि प्राज्ञेति रूपम् । मृदस्तिकन् । मृदशब्दात्स्वार्थे तिकन्नित्यर्थः । सस्त्रौ । प्रशस्तायां मृदि वर्तमानाद् मृच्छदात्स्वार्थे स न एतौ प्रत्ययौ स्त इत्यर्थः । रूपप इति । 'प्रशंसायां रूपपू' इति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः । वाचिकमिति । 'स्वार्थिकाः क्वचिल्लिङ्गमतिवर्तन्ते' इति नपुंसकत्वम् । प्रज्ञ एवेति । प्रजानातीति प्रज्ञः । ' इगुपधज्ञा -' इति कः । ततः स्वार्थेऽण्, प्राज्ञः । प्राशीति । 'टिड्ढा -' इति ङीप् । प्रज्ञानं प्रज्ञा । ' श्रतश्चोपसर्गे -' इत्यङि टाप् । प्रज्ञा विद्यते यस्याः सा तु प्राज्ञा भवति । 'प्रज्ञाश्रद्धाचभ्यः -' इति णः । मृदस्तिकन् । 'प्रत्ययस्थात्-' इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थम्, टापो लुक्यपि श्रवणार्थं च । पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः । सस्त्रौ । इह 'प्रशंसायां रूपप्' इत्यस्यानन्तरं 'वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' | 'मृदः सनौ' 'तिकंश्च' इति वक्तुगुचितम् । न चैवं सनाविव तिकन् प्रत्ययोsपि प्रशंसायामेवेत्यतिप्रसङ्गः । 'तिकंश्च' इत्यत्र 'प्रशंसायाम्' इति निवृत्तमिति कल्पनायां मानाभावादिति वाच्यम्, सम्नतिकनः' इति वक्तव्ये तिकनः पृथक्करणस्यैव तत्र मानत्वात् । प्रशस्ता मृदिति । 'भृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका' इत्यमरः । नित्योऽयमिति ।
'मृदः