________________
६४८] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक२१०० रक्त। (५-४-३२) लाक्षादिना रक्ने यो लोहितशब्दस्तस्मात्कन्स्यात् । 'लिङ्गबाधनं वा' (३३२२) इत्येव । लोहितिका, खोहिनिका शाटी। २१०१ कालाच्च । (५-४-३३ ) 'वणे चानित्ये' (सू २०१६ ) रक्त' (सू २१००) इति सूत्रद्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी। २१०२ विनयादिभ्यष्ठक । (५-४-३४) विनय एव वैनयिकः । सामयिकः। उपायाद्धस्वत्वं च' (ग सू १४४)। औपयिकः । २१०३ वाचो व्याहृता
याम् । (५-४-३५) सन्दिष्टायां वाचि विद्यमानाद्वाक्छब्दास्वार्थे ठक् 'केऽणः' इति ह्रखे कन्नन्ताहापि लोहिनिकेति सिध्यति । सति तु कना डीपो बाधे लोहिताशब्दात् कनि 'केऽणः' इति ह्रस्वे टापि लोहितिकेति भवति । ननु 'ड्याप् प्रातिपदिकात्' इत्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्ध व्याग्रहणं ड्यावन्तादेव तद्धिता भवन्ति, नतु ङयाम्भ्यां प्रागियेवमर्थमित्युक्तम् । एवं च डीपः प्राक् कनः प्रसक्केरेवाभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ड्याब्ग्रहणं न संवध्यते । न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसंख्याकारककुत्सादिप्रयुक्त कार्याणां ऋमिकतया
यावन्तादेव सुपि ततः कनि रूपसिद्धवचनमिदं व्यर्थमिति वाच्यम् , अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः। रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्रव्यमवस्थानेन नित्यतया पूर्वेणाप्राप्तौ वचनम् । कालाच्च । द्वयमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति कालकं मुखं वैलदयेणेति । लज्जासूयादिनेत्यर्थः । रक्त उदाहरति कालकः पट इति । नील्यादिनेति शेषः । विनयादिभ्यः। उपायाद ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे क् । प्रकृतेर्दीघस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयर्थ्यादीर्घस्येति गम्यते। बाचो व्याहृतार्थायाम । इदम् अस्य वक्तव्यमिति दूतं प्रति योऽर्थ उच्यते स व्याहृतः, व्याहृतः एनिकेत्यादेरपि संग्राह्यत्वात् । 'सुबन्तात्तद्धिताः' इति पक्षस्य 'निरवकाशत्वमपवादत्वम्' इति पक्षस्य च मुख्यत्वात्तदाश्रयणे तु 'वर्णादनुदात्तात्-' इत्यस्यानन्तरमेव कनः प्रवृत्तेः कन्प्रत्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाभावाच्च वार्तिकमिदं न कर्तव्यम् । अतएव ड्याबग्रहणं व्यर्थमिति स्वाम्पीति रूपं प्रबलमिति च ननोरमादावुक्तमिति दिक् । उपाय इति । उपायशब्दष्टकं लभते हखत्वं चेत्यर्थः । अकस्माच्छब्दोऽत्र पठ्यते स तु दान्तो न तु तान्तः । तेन कादेशो न. । 'अव्ययानां भमात्रे टिलोपः' । आकस्मिकम् । वाचो व्याहृता । व्याहृतार्थायां किम् , मधुरा वाग्देवदत्तस्य ।