________________
.
प्रकरणम् ४१ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६४७ अविरेवाविकः । २०६७ यावादिभ्यः कन् । (५-४-२६) याव एव यावकः । मणिकः । २०६८ लोहितान्मणौ। (५-४-३०) लोहित एव लोहितको मणिः । २०६६ वर्णे चानित्ये। (५-४-३१) लोहितकः कोपेन । 'लोहिताल्लिङ्गबाधनं वा' (वा ३३२२) । लोहितिका, लोहिनिका कोपेन । देवतेति । स्वार्थिकत्वेन प्रकृतिलिङ्गातिकमात् स्त्रीत्वम् । अवः कः । अयमपि केवलस्वार्थिकः । 'अवयः शैलमेषार्काः' इत्यमरः । यावादिभ्यः कन् । यावक इति । यवानामयं याव अोदनादिः, स एव यावकः । अलक्लकवृक्ष वा यावः, स एव यावकः ‘यावोऽललो द्रुमालयः' इत्यमरः । लोहितान्मणी । मणौ वर्तमानाद् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः। माणिक्यमयो मणिरेवेह मणिविवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान् स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् । वर्णे चानित्ये । अनिये वर्णे विद्यमानाद् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । अमएयर्थमिदम् । लोहितकः कोपेनेति । देवदत्तादिरिति शेषः । कोपनिमित्तकं देवदत्तादेौहित्यमनित्यमेव, कोपाभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात् । तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तत, सवर्णो नित्य इत्यभिमतमिति न दोषः ।स्यादेतत् , लोहिनिका लोहितिका वा कोपेनेति स्त्रियां रूपद्वयमिष्यते । तत्र लोहितशब्दाद् 'वर्णादनुदात्तात्-' इति नत्वसंनियोगशिष्टं डीपं परत्वात् स्वार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसंनियोगशिष्टछीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दाद् 'अजाद्यतः-' इति टापि 'प्रत्ययस्थात्-' इति इत्त्वे लोहितिकेत्येव स्यात् , नतु तत्र लोहिनिकेति, अत श्राह लोहिताल्लिङ्गबाधनं वेति। वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना लीपो बाधे लोहिनीशब्दात् कनि समानस्य साभावविधानाद्वा इष्टसिद्धिरिति। देवतेति । तलन्तं स्त्रियाम् । वर्णे चानित्ये । अनित्से किम् , लोहितं रुधिरम् । लोहिता लाक्षा । अनित्यत्वमिह समानाधिकरणध्वंसप्रतियोगित्वम् । अतएव 'रक्ते' इत्युत्तरसूत्रे सार्थकम् । लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणासिद्धेः । लोहितक इति । कोपेन लोहितो यः पुरुषस्तस्मिन्नेव क्षणादूर्ध्व कोपशान्तौ लौहित्य नश्यतीति भवत्यत्रानियो वर्णः । 'प्रातिपदिकात्तद्धिताः' इति पक्षस्य प्रतिपदविधानमात्रेणापवादत्वमिति पक्षस्य चाश्रयणे 'वर्णादनुदात्तात्-' इत्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह लिङ्गबाधनं वेति । लोहितादित्युपलक्षणम् । एतिका