________________
६४६ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकभ्यां च । (५-४-२५) पादार्थमुदकं पाद्यम् । अयम् । 'नवस्य नू आदेशो बसनप्खाश्च प्रत्यया वक्तव्याः ' (वा ३३२७) । नूनम् , नूतनम् , नवीनम् । 'नश्च पुराणे प्रात्' ( 1 ३३२८)। पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः, चात्पूर्वोक्ताः। प्रणम् ,प्रत्नम् , प्रतनम् , प्रीणम् । 'भागरूपनामभ्यो धेयः' (वा ३३३०)। भागधेयम् । रूपधेयम् । नामधेयम् । 'प्राग्नीध्रसाधारणादम्' (वा ३३३४ )। श्राग्नीध्रम् । साधारणम् । स्त्रियां डीप । श्राग्नीधी। साधारणी । २०६४ अति. थेय॑ः। (५-४-२६ ) 'तादर्थे' इत्येव । अतिथये इदमातिथ्यम् । २०६५ देवात्तल् । (५-४-२७ ) देव एव देवता । २०६६ अवेः कः। (५-४-२८) सिध्यतीत्याक्षिप्य दिवेरैश्वर्यकर्मणो देवः, तस्मात्स्वार्थे तलिति सम हितम् । हविः प्रति पित्रादीनामीश्वरत्वं स्वामित्वम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याद्युद्देशन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमहति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविशेषात्मकमेव भाष्यरीत्यापि पर्यवस्यतीत्यलम् । पादा_भ्यां च । तादर्य यदिति शेषः । अय॑मिति । अर्घार्थमुदकमिति विग्रहः । अर्थः पूजा। 'मूल्ये पूजाविधावर्घः' इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः। नवीनमिति । नवशब्दात् खप्रत्यये, तस्य ईनादेशे, प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः। नश्च पुराण प्रादिति । वार्तिकमिदम् । चात्पूर्वोक्ता इति । नप , तनप , ख इत्यर्थः । प्रीणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । प्राग्नीधेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् श्राग्नीध्रम् । ततः स्वार्थे अनि अाग्नीध्रमेव । अनेक प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते । ततः स्वार्थे अनि साधारणमित्येव । अविधेः प्रयोजनमाह स्त्रियां डीविति । अतिथेयः। तादर्थ्ये इत्येवेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुर्थ्यन्ताद् ण्यः स्यादित्यर्थः । देवात्तल् । 'तादर्थ्य' इति निवृत्तम् । अत्यन्तस्वार्थिकोऽयं तत् । ता देवताश्च पितृदेवताः । पितृदेवताभ्य इदमिति विग्रहः । अर्ध्यमिति । 'मूल्ये पूजाविधावर्घः' इत्यमरः । पूर्वोक्ता इति । नप्तनपखप्रत्यया इत्यर्थः । प्राग्नीध्रमिति । 'अग्नीधः शरण रण भं च' इति शैषिकेषु व्युत्पादितम् , तच्चान्तोदात्तम् , ततः खार्थेऽनेनाञ् । आधुदात्तत्वं फलम् । फलान्तरमप्याह स्त्रियामिति । प्राग्नी. ध्रीति । शालेति विशेष्यम् । समानं धारणमस्याः साधारणी । अनेकं प्रत्यधिशिष्टसम्बन्धो भूम्यादिः । पृषोदरादित्वात्समानस्य सभावः । विभाषाप्रकरणादअभावे टाप् । प्राग्नीध्रा शाला । साधारणा भूभिः । नन्वअभावपक्षे समानस्य मभावेऽपि साधारण इत्येव स्यान्न त्वत्रादिवृद्धिरिति चेद् अत्राहुः-'साधारणादन' इत्यत एव निपातनात्