________________
प्रकरणम् ४१] बालमनोरमा तत्त्वबोधिनीसहिता। [६४५ प्रतिदिश्यन्ते, चान्मयट् । मोदकाः प्रकृता मौदकिकम् , मोदकमयम् । शाकु. लिकम्, शकुलीमयम् । द्वितीयेऽर्थे मौदकिको यज्ञः, मोदकमयः। २०६१ अनन्तावसथेतिहभेषजाम्न्यः । (५-४-२३) अनन्त एव आनन्स्यम् । भावसथ एव पावसथ्यम् । इतिह इति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् । २०६२ देवतान्तात्तादर्थ्य यत् । (५-४-२४) तदर्थ एव तादर्थ्यम्। स्वाथै व्यस् । अभिदेवतायै इदमाभिदेवस्यम् । पितृदेवत्यम् । २०६३ पादार्घासमूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिनधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात् समूहवत्प्रत्ययाः स्युरित्यर्थः । आये उदाहरति मोदकाः प्रकृताः मौदकिकमिति । 'अचित्तहस्तिधेनोः-' इति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाकुलिकमिति । शकुल्यः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिक्रमश्च । द्वितीयेऽर्थे मौदकिको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः । अनन्तावसथेतिह । अनन्त, श्रावसथ, इतिह, भेषज एभ्यः स्वार्थे ध्यप्रत्ययः स्यादित्यर्थः। अनन्त एवेति । अन्तो नाशः। तस्याभावः अनन्तः । अर्थाभावे नस्तत्पुरुषः, अभाव अव्ययीभावेन तद्विकल्पस्योकत्वात् । अानन्त्यमिति । खार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रमः । श्रावसथो गृहम् । निपातसमुदाय इति । सच उपदेशपारम्पर्य वर्तते । तस्मात्स्वार्थे ज्यः । 'पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ।' इत्यमरः । भैषज्यमिति । भेषजम् औषधम् , तदेव भैषज्यम् । 'भेषजौषधभैषज्यानि' इत्यमरः । देवतान्तात्तादयें यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः खार्थे चतुर्वर्णादित्वात् ष्यमित्यर्थः । देवतान्तात्प्रातिपदिकाद् यत्स्यात्प्रकृत्यर्थार्थे वस्तुनि वाच्य इत्यर्थः । त्यज्यमानद्रव्ये उद्देश्यविशषो देवता मन्त्रस्तुत्या चेत्युक्तं 'सास्य देवता' इत्यत्र । अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः, तदाह पितृदेवत्यमिति । देवताशब्दस्य देवा मनुष्या पितरः असुरा रक्षांसि पिशाचा इत्यादि श्रुतिपुराणादिप्रसिद्धजातिविशेषपरत्वे तु अत्राव्याप्तिः स्यादिति भावः । भाष्ये तु पितृदेवत्यमिति न अनं प्रकृतमुच्यते अस्मिन्नित्यर्थः । मौदकिकम् । शाकुलिकमिति । 'अचित्तहस्तिधेनोष्ठक्' । आवसथ इति । 'उपसर्गे वसे:' इत्यथप्रत्ययः । निपातसमु. दाय इति । उपदेशपारम्पर्ये वर्तते वचनाचाप्रातिपदिकादेव प्रत्ययः। ऐतिह्यमिति । 'इतिहाव्ययम्' इति कोशः । भेषजमिति । मिषज्यतेः कण्ड्वादियगन्तात्विवप् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः । पितृदेवत्यमिति । पितरश्च