________________
६४४] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक भाये प्रकृतमममममयम् । अपूपमयः । यवागूमयी। द्वितीयेऽनमयो यज्ञः। अपूपमयं पर्व । २०६० समूहवञ्च बहुषु । (५-४-२२) सामूहिकाः प्रत्ययाः तत्प्रकृतवचने । तदिति प्रथमान्तनिर्देशः । प्राचुर्येणेति । बहुलतया उपस्थितं प्रकृतशब्देन विवक्षितमित्यर्थः । उपसर्गबलादिति भावः । प्रतिपादनमिति । बोधनमित्यर्थः । भाव इति । तथा च प्रकृतस्य बोधने सतीत्यर्थः । प्राचुर्यविशेषणकवस्तुवृत्तेः प्रथमान्तात्स्वार्थे मयडिति फलति । अत्र प्राचुर्यविशिष्टं वस्तु प्रकृतेरर्थः । प्रत्ययस्तु तद्द्योतकः । अधिकरणे वेति । तथा च प्राचुर्यविशेषणकं यद्वस्तु यस्मिन्नुच्यते तदधिकरणे वाच्ये तादृशवस्तुवृत्तेः शब्दाद् मयडिति फलितम् । अत्र पक्षे प्राचुर्यविशिष्टमुच्यमानं वस्तु प्रकृत्यर्थः । तदधिकरणं प्रत्यय र्थः । तन्त्रेणार्थद्वये सूत्रतात्पर्यम् , व्याख्यानात् । यद्यप्याद्यपक्षे स्वार्थिकप्रकरणपातः समासः, नतु द्वितीयपक्षे । तथापि 'अथ स्वार्थिकाः' इति मूलं प्रायिकाभिप्रायमिति न दोषः ।
आद्य इति । भावल्युट्पक्षे इत्यर्थः । प्रकृतमन्नमन्नमयमिति । प्रचुरमन्नमित्यर्थः । स्वार्थिकत्वात्प्रकृतिलिङ्गता । अपूपमय इति । प्रचुरोऽप इत्यर्थः । यवागू. मयीति । प्रचुरा यवागूरित्यर्थः। टित्त्वाद् डीबिति भावः । द्वितीय इति । अधिकरणल्युट्पक्षे इत्यर्थः। अन्नमयो यज्ञ इति । 'इष्टिषु दशौदनाः पशौ तं सोमसहस्रम्' इत्यादिवाक्यैरुच्यमानानि प्राचुर्यविशिष्टान्नानीत्यर्थः । अस्वार्थिकत्वेन प्रकृतिलिङ्गत्वाभावाद्विशेष्यनिघ्नता । अपूपमयं पर्वेति । पर्वणि प्रचुर। अपूपाः कार्या इत्याधुच्यमानापूपाधिकरणं पर्वेत्यर्थः । अस्वार्थिकत्वाद्विशेष्यनिघ्नता। केचित्तु द्वितीयपक्षे वचनशब्दोऽधिकरणल्युडन्तः, प्रकृत्यर्थो न विवक्षित इत्याहुः । तथा सति प्राचुर्यविशिष्टान्नाद्यधिकरणं यज्ञ इत्येव बोधः, नतु उच्यमानत्वस्य बोधः। समूहवश्च बहुषु । 'तत्प्रकृतवचने' इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात् स्वार्थे तत्प्रकृत । प्राचुर्येण प्रस्तुतमिति । यद्यपि प्रकृतशब्दः प्रस्तुतमात्रे रूढः, तथापि वचनग्रहणादयं विशेषो लभ्यते । वचनप्रहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यादित्येवमर्थम् । आद्य इति । प्रथमान्तात्प्रकृते द्योत्ये प्रत्ययः । खार्थिकत्वात्प्रकृतितो लिङ्गवचनम् । अपूपमयमित्यपि क्वचित्पठ्यते । प्रस्तुतोऽपूपोऽपूपमयम् । क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते । अस्मिन्पक्षे तद्ग्रहणं व्यर्थम् । द्वितीये त्वावश्यकं प्रथमान्तादेव प्रत्ययलाभार्थम् । द्वितीय इति । अस्मिन्पक्षे उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम् । ल्युटोलमधिकरणं तु मयडर्थः । अतएव विशेष्यनिन्नता, तदाह अन्नमयो यक्ष इति ।