SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६७६ ] सिद्धान्तकौमुदी। [द्विरुक्तइत्यादौ सोलुंक्च प्राप्तः । सर्व बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्यो. दाहरणम्, 'स्त्रियाम्' (सू ४५३) इति सूत्रे 'अन्योन्यसंश्रयं स्वेतद्' इति भाष्यं चात्र प्रमाणमिति । २१४८ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । (८-१-१३) प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विवंचने कर्मधारयवद्भावात्सुपो लुकि तदेव वचनम् । अतिप्रियमपि वस्वनायासेन ददातीत्यर्थः । २१४६ यथास्वे यथायथम् । (८-१-१४) यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यश्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपास्यते । यथायथं ज्ञाता । यथास्वभावसोलुक् प्राप्त इत्यर्थः। सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत् समाधयमित्यत्र किं प्रमाणमित्यत आह प्रकृतवार्तिकेति । 'स्त्रीनपुंसकयो:-' इति प्रकृतवार्तिके अन्योन्यमिमे ब्राह्मण्याविति, इतरेतरमिमे कुले इति चोदाहरणाद् 'दलद्वये टावभावः क्लीवे चाङ्विरहः स्वमोः' इति विज्ञायते । 'स्त्रियाम् इति सूत्रे अन्योऽन्यसंश्रयं त्वेतदिति भाष्यप्रयोगात् समासे सोरलुगिति विज्ञायत इत्यर्थः । प्रकृच्छे । कृच्छं कष्टम् । अकृच्छ्रम् अनायासः । तस्मिन्वर्तमानयोः प्रिय-सुख इत्यनयोः द्वे वा स्तः । कर्मधारयवद्भावादिति 'कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः । 'समासवच्च बहुलम्' इत्यतः समासवदित्यनुवृत्तिस्तु न शङ्कया, तस्य वार्तिकस्थत्वात् । एवं च प्रियेणेत्यस्य सुखेनेत्यस्य च द्वित्वे सति कर्मधारयवत्त्वात् सुपोस्तृतीयैकवचनयो कि पुनः समुदायात् तृतीयैकवचनमिति फलितम । यथास्वे यथायथम् । वीप्सायामिति । कात्स्येन संबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकात्स्न्ये द्योये यथाशब्दस्य स्वशब्देनाव्ययीभाव इत्यर्थः । कृत्स्नश्वासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु आत्मात्मीयवाच्येव गृह्यते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रह. वाक्यस्य फलितमर्थमाह द्वे इति । स्त इति शेषः। निपातनादिति भावः । न च 'नित्यवीप्सयोः' इत्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्कयम् , द्वित्वविषयस्य शब्दस्य लक्षणया कामविशिष्टे वृत्तावेव वीप्साया द्विवचनविधानात् । अन्यथा सर्वो घट इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति । यथायथा इति समुदायस्येति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृतद्वित्वस्य भाष्ये 'यां यां मन्येत सा भवत्' इत्येवोक्कमि त्याहुः । सोलुंक्च प्राप्त इति । सुपः खादेशविधानस्यान्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः । योऽयमात्मेत्यादि । आत्मात्मीययोरपि स्वशब्दवाच्यत्वात् । यथायथमिति ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy