________________
प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६७५ बाहुलकास्त्रयम्" । तथा हि-अन्योन्यं परस्परमित्यत्र दलद्वयेऽपिटाप्राप्तः।न च 'सर्वनानो वृत्तिमात्रे-' (वा) इति पुंवद्रावः, अन्यपरयोरसमासवद्भावात् । न च द्विवचनमेव वृत्तिः। 'यां यां प्रियः प्रेक्षत कातराती सा सा' इत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरम् इत्यत्र च 'अङ्तरादिभ्यः-(सू ३१५) इत्यड् प्राप्तः । 'अन्योन्यसंसक्कमहस्त्रियामम्' 'अन्योन्याश्रयः' 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इति । अन्योन्यमित्यादौ अडादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथा हीति । यथेदं स्पष्टं भवति तथा उदाहृत्य प्रदर्यत इत्यर्थः। ननु पूर्वदले 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वेनैव टानिवृत्तेः सिद्धत्वात् तद्विषये बहुलग्रहणं नादर्तव्यमित्याशङ्कय निराकरोति न चेति । 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वस्यात्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह अन्यपरयोरिति । 'समासवच्च बहुलम्' इति समासवत्त्वम् इतरशब्दमात्रविषयम् , न त्वन्यपरशब्दविषयमिति प्रागुतमित्यर्थः। ननु मास्तु समासवत्त्वम् , तथापि 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वं दुर्वारम् । द्विवचनस्य वृत्तित्वादित्याशङ्कय निराकरोति नच द्विवचनमेव वृत्तिरिति । 'कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः' इति परिगणनादिति भावः। द्विवचनस्य वृत्त्यन्तर्भावे बाधकमाह यां यामिति । द्विवचनस्य वृत्त्यन्तर्भावे 'यां यां प्रियः प्रेक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव' इत्यत्र श्लोके यांया मित्यत्र सासेत्यत्र च 'सर्वनाम्नो वृत्तिमात्रे-' इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीने चाड्विरह इत्यस्योदाहरति अन्योन्यमिति । ननु समासे सोरलुक् चेति कथम् , अन्यपरशब्दयोः समासवत्त्वाभावादित्याशङ्कय कृतद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति अन्योन्यसंसक्त. मिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः। अहश्च त्रियामा चेति समाहारद्वन्द्वः। अहश्च रात्रिश्च अन्योन्येन संयुक्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः। परस्यराक्षिसादृश्यमिति । अक्षणा सादृश्यमक्षिसादृश्यम् । परस्परस्याक्षिसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य माह अन्ये विति। अतिप्रसङ्गादिति। तथा च एकशेषप्रतिबन्धाद् द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्वलेन पुंवद्भावो न शङ्कयो लक्ष्यविरोधात् । 'कारक चेद्विजानीयाद्यां यां मन्येत सा भवेत्' इति 'अकथितं-' सूत्रस्थ 'यांयाम्' इति भाष्यप्रयोगविरोधाच्चेति भावः । नव्यास्तु-'यांयां प्रियः प्रेक्षत-' इत्यादिमाघप्रयोगे 'सासा-' इति द्विवचनमयुक्तम् । द्विरुक्तार्थस्य सेत्यनेनैव परामष्टुं शक्यत्वात् । अत एव