________________
५६२ ]
सिद्धान्तकौमुदी ।
[र्ता तेषु मत्वधीय
एव ज्ञापकात्तत्र छः | विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः, गर्दभाडीयः । १८६१ विमुक्तादिभ्यो ऽस् । ( ५-२-६१ ) मध्वर्थेऽश स्यादध्यायानुवाकयोः । विमुक्तशब्दोऽस्मि श्वस्ति वैमुक्तः । देवासुरः । १८६२ गोषदादिभ्यो वुन् । ( ५-२-६२) मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेवकः । १८६३ तत्र कुशलः पथः । ( ५-२-६३ ) वुन् स्यात् । पथि कुशलः पथकः । १८६४
1
1
कर्षादिभ्यः कन् । ( ५-२-६४ ) आकर्षे कुशल आकर्षकः । ' श्राकषादिभ्यः' इति रेफरहितो मुख्यः पाठः । आकषो निकषः । १८६५ धनहिरण्याकामे । ( ५-२-६५ ) काम इच्छा | धने कामो धनको देवदत्तस्य । हिरण्यकः । १८६६ स्वाङ्गेभ्यः प्रसिते । ( ५-२-६६ ) केशेषु प्रसितः कथं प्राप्तिः ? ‘सूक्लसाम्नोः' इति नियमादित्यत श्राह श्रत एवेति । विधानात । 'मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधनसामर्थ्यात्' इति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु ' अध्यायानुवाकयोर्वा लुग्वक्तव्यः' इति वचनमेवारब्धम् । गर्दभाण्ड, गर्द भाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वत्यर्थः । भाग्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वा अन्वेष्यः । विमुक्तादिभ्योऽण् । वैमुक्त इति । विमुक्त. शब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । इषेत्वक इति । इषेवा' इति शब्दयुक्त इत्यर्थः । अस्यवामीयमित्यत्रोक्तरीत्या सुपो न लुक् । तत्र कुशलः पथः । वुन् स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थं । अकादेशे 'नस्तद्धिते' इति टिलोपः । आकर्षादिभ्यः कन् । श्राकर्षक इति । यद्यपि वनैवानुवृत्तेनेद सिध्यति । तथापि शकुनिक इत्याद्य कन्ग्रहणम् । धनहिरण्यात्कामे । 'तत्र' इत्यनुवर्तते । धनशब्दाद् हिरण्यशब्दाच्च सप्तम्यन्तात् कमि वाच्ये कन् स्यादित्यर्थः । काम इच्छेति । नतु कामयित व्याख्यानादिति भावः । स्वाङ्गेभ्यः प्रसिते । 'तत्र' इत्यनुवर्तत । स्वप्तिभ्यः सप्तम्यन्तेभ्यः विधानसामर्थ्यादिति । मतुप्प्रकरण एवास्मिन् सूत्र कर्तव्ये यत्रास्य लुग्विधानें तत्पाक्षिक लुकमनुमापयतीति कैयटः । तत्र कुशलः । सप्तमीसमर्थात्पथिन्शब्दात् कुशल इत्यर्थे वुन्स्यात् । श्राकर्षादिभ्यः कन् । वुना सिद्धे कन्ग्रह - म् इदुदन्तार्थम् । अशनिकः । शकुनिकः । त्सरुकः । मुख्यः पाठ इति । श्राकषन्त्या स्मन् सुवर्णादिकमित्याकषः । ' पुंसि संज्ञायां घः- इति व्याख्याय, ये तु 'आकर्षादिभ्यः' इति सरे फं पठन्ति तेषाम् ' आकर्ष इति धनि रूपम्' इति हरदत्तेनोक्तत्वादिति भावः । धने