________________
[ ५६३
प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। केशकः । तद्रचनायो तत्पर इत्यर्थः । १८६७ उदराहगाधूने । (५-२-६७) अविजिगीषौ ठक् स्यात्कनोऽपवादः । बुभुक्षयात्यम्तपीडित उदरे प्रसित मौदरिकः । 'पाधूने किम्-उदरकः । उदरपरिमार्जनादौ प्रसक इत्यर्थः । १८६८ सस्येन परिजातः । (५-२-६८) कन् स्वर्यते, न तु ठक् । सस्थशब्दो गुणवाची न तु धान्यवाची । 'शस्यन' इति पाठान्तरम् । सस्येन गुखेन परिजातः संबद्धः सस्यकः साधुः । १८६६ अंशं हारी। (५-२-६६) 'हारी' इत्यावश्यके णिनिः । अत एव तचोगे षही न । अंशको दायादः । १८७० तन्त्रादचिरापहृते । (५-२-७०) तन्त्रकः पटः । प्रत्यन इत्यर्थः । १८७१ प्रसितेऽर्थे कन् स्यादित्यर्थः । प्रसित उत्सुकः । तद्रचनायामिति । वेण्यादिप्रथने इत्यर्थः । अत्रैवार्थे अस्य साधुत्वम् , व्याख्यानादिति भावः । उदराट्रगाने । 'तत्र' 'प्रसित' इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दाद् । आाने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आयूनशब्दं विवृण्वन्नाह -अविजिगीषाविति । 'दिवोऽकिजिगाषाम्' इत्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितः, न तु मनवयुद्धे विजिगीषयेत्यर्थः । उदरक इति । मल्ल इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह उदरपरिमार्जनादौ प्रसक्त इति । विजिगीषयेति शेषः । सस्येन परिजातः। तृतीयान्तात् सस्यशम्दात्परिजात इत्यर्थे कन् स्यादित्यर्थः । संनिहितष्ठगेव कुतो नानुवतते इत्यत आह कन् स्वयते न तु ठगिति । स्वरितत्व. प्रतिज्ञायां तु पाणिनीयपरंपरैव प्रमाणम् । सस्यशब्दो गुणवाचीति । व्याख्यान. मेवान शरणम् । शस्येनेतीति । 'शंसु स्तुती' इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं संबद्ध इति । अंशं हारी । द्वितीयान्ताद् अशशब्दाद् हारीत्यर्थे कन् स्यादित्यर्थः । ननु कृद्योगषष्ठीप्रसादशमिति कथं द्वितीयेत्यत आह आवश्यके णिनिरिति । 'आवश्यकाधमर्ययोः-' इत्यनेनेति शेषः । षष्ठी नेति । 'भकेनोः- इति तनिषेधादिति भावः। तन्त्रादचिरापहते । तन्त्रशब्दात् पञ्चम्यन्ताद् अचि काम इति। 'तत्र' इत्यनुवतनात्सप्तम्यन्तात्प्रत्यय इति भावः । उदात् । श्राद्यूनशब्दार्थमाह अविजिगीषाविति । 'दिवोऽविजिगीषायाम्' इति तत्रैव निष्ठानत्वविधानात् । सस्येन । कर्मकर्तरि तृतीयेयम् । परितो जातः परिजातः । फलितमाह संबद्ध इति । अतएवेति । 'अकेनो:-' इति निषेधादिति भावः । तन्त्रात् । तन्यन्ते तन्तवोऽस्मिमिति व्युत्पत्त्या तन्त्रं तन्तुवायशलाका । चिरः