________________
५६४ ] सिद्धान्तकौमुदी। तद्धितेषु मत्वर्थीयब्राह्मणकोष्णिके संज्ञायाम् । (५-२-७१) श्रायुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमझं यस्यां सा उष्णिका यवागूः । अल्पानशब्दस्योष्णादेशो निपात्यते । १८७२ शीतोष्णाभ्यां कारिणि । (५-२-७२) शीतं करोतीति शीतकोऽलसः । उष्णं करोतीत्युष्णकः शीघ्रकारी । १८७३ अधिकम् । (५-२-७३) अध्यारूढशन्दाकनुत्तर पदलोपश्च । १८७४ अनुकाभिकाभीकः कमिता। (५-२-७४) अन्न भिभ्यां कन् , अभेः रापहृतेऽर्थे कनित्यर्थः । तन्त्रं तन्तुवायशलाका । अचिरेण कालेन अपहृतः अचि रापहृतः । 'कालाः परिमाणिना' इति समासः । प्रत्यग्र इति । नूतन इत्यर्थः । ब्राह्मणकोष्णिके । आयुधजीविविषयब्राह्मणशब्दात् प्रामान्ताद् अस्मिन्नित्यर्थे कन् निपात्यत इत्यर्थः । अल्पानशब्दस्येति । अलानशब्दात् प्रथमान्ताद् अस्मिनित्यर्थे कन्प्रत्ययः प्रकृतेरुष्णादेशश्च निपात्यत इत्ययः । शीतोष्णाभ्यां कारिणि । शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णं शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन् स्यादित्यः । 'य आशुकर्तव्यानर्थान् चिरेण करोति स शीतक उच्यते यस्तु अनाशुकर्तव्यान् आश्वेव करोति स उष्णक उच्यते' इति भाष्ये । 'संज्ञायामित्यनुवृत्तेरयमों लभ्यते' इति कैयटः । तदाह शीतकोऽलस इति । उष्णकः शीघ्रकारीनि च । अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् । कालोऽपहृतस्येत्यचिरापहृतस्तस्मिन् । 'कालाः परिमाणिना' इति समासः । प्रत्यय इति । नूतन इत्यर्थः । ब्राह्मणकोष्णिके । ब्राह्ममशब्दादायुधजीवित्वोपाधिकात् प्रथमान्तात् सप्तम्यर्थे कन् प्रत्ययो निपात्यते । अन्नशब्दातु अल्पत्वोपाधिकात् । तदाह प्रायुधेत्यादि । शीतोष्णाभ्याम् । शीतमिव शीतम् , मन्दमित्यर्थः । शीते सति कार्यकरणे पाटवाभावात् । उष्णमिवोष्णम् , शीघ्रमि यर्थः । क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः । कृद्योगलक्षणा षष्ठी तु क्रियाविशेष्णान्नेत्युक्तम् । मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवत्यनभिधानात् । अधिकम् । अध्यारुढशब्दादिति । 'गत्यर्याकर्मक-' इत्यादिना रुहेः कर्तरि कर्मणि वा क्लो निहितः । आद्यं क्तप्रत्ययेन कर्मणोऽनभिहितत्वाद् अध्यारूढशन्दयोगे द्वितीया । अध्यारूढो द्रोणः खारीमिति प्रामं गत इतिवत् । तथा अधिकशब्देनापि योगे द्वितीयायां गप्तायां 'यस्मादधिकम्-' 'तदस्मिनधिकम्-' इति च निर्देशद्वयात् पञ्चमीसप्तम्यौ भवतः । अधिको द्रोणः खार्याः, अधिको द्रोणः खार्यामिति । द्वितीये तु क्लेन कर्मणोऽभिहितत्वात्प्रथमा । अधिका खारी द्रोणेन । कर्मणोऽभिहितत्वादेव पञ्चमीसारम्याविह न शङ्कनीये ।