________________
प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६५ पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अमिकामयते अभिकः, अभीकः । १८७५ पार्श्वनान्विच्छति । (५-२-७५) अनृजुरुपायः पार्थम् , तेनान्विच्छति पावकः । १८७६ अयःशूलदण्डाजिनाभ्यां उठी । (५-२-७६) तीचणोपायोऽयःशूलम्, तेनान्विच्छति मायःशूलिकः साहसिकः । दण्डाजिनं दम्भः, तेनान्विकृति दाण्डाजिनिकः । १८७७ तावतिथं ग्रहणमिति लुग्वा। (५-२-७७)कन् स्यात्पूरबप्रत्ययस्य च लुग्वा। द्वितीयकम् , अनुकाभिक । अनुक, अभिक, अभीक एषां समाहारद्वन्द्वः। सौत्रं पुस्त्वम् । पार्श्वनान्विञ्छति । तृतीयान्तात्पार्श्वशन्दाद् अन्विच्छतीत्यर्थे सहायां कन् स्यादित्यर्थः । अन्वेषणं मार्गणम् । पार्थमिव पार्श्वम् । अनृजुरुपायः। 'ऋजूपायेन अन्वेष्टव्यान् अर्थान् यः अनृजुना उपायेनान्विच्छति स पार्श्वकः' इति भाष्यम् । तदाह अनुजुरित्यादि । प्रयाशूलदण्डाजिनाभ्यां ठक्ठी । अयःशूल, दण्डोजिन प्राभ्यां तृतीयान्ताभ्यां अन्विच्छतीत्यर्षे संज्ञायां ठकठमो स्त इत्यर्थः । अबःशुलमिव अयःशूलम् , साहसमित्यर्थः । 'यो मृदुनोपायेन अन्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति स प्रायःशूलिकः' इति भाष्यम् । तदाह तीणोपाय इत्यादि । दण्डाजिनं दम्भ इति । दम्भार्थत्वाहण्डाजिनशन्दो दम्भे लाक्षणिक इति भावः । तावतिथम्। तावतां पूरणं तापतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः। तृतीयार्थे प्रथमा । ग्रहणमिति भावे ल्युडन्तम् । तथाच तृतीयान्तात्पूरणप्रत्ययान्ताद ग्रहणमित्यर्थे कन् स्यात्पुरणप्रत्ययस्य च लुग्वेत्यर्ष इत्यभिप्रेत्याह कन् स्यादित्यादि । पूरण प्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक् । किंतु पूरणप्रत्ययमात्रस्य, अनुका । समाहारहन्दै सौत्रं पुंस्त्वम् । सूत्रत्वालिगव्यत्यय इति फलितोऽर्थः । अन्वभिभ्यां कन्निति । क्रियाविशिष्टसाधनवाचिभ्या खार्थे निपात्यत इत्यर्थः । पार्श्वेनान्विच्छति । 'आकर्षादिभ्यः कन्' इत्यतः कननुवर्तते । अनुजुरिति । तिर्यगवस्थानापार्श्वमनृजु, तत्साध/दुपायोऽपि । इह शीतोष्णपार्शयःशूलदण्डाजिनशन्दा गौणा एव गृह्यन्ते । मुख्याभ्वस्तु प्रत्ययो न भवत्यनमिधानात् । तावतिथं ग्रहणमिति लुग्वा । तावतां पूरणं तावतियम् , 'वतोरिथुक्' । यथा 'तस्थापत्यम्' इत्यत्र तस्येति षष्टयन्तानां सामान्यनिर्देशस्तवात्र 'तावतियम्' इति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । अनन्तरावपि ठक्छनौ नानुवर्तेते, भस्वरितत्वादित्यभिप्रेलाह फन्स्यादिति । पूरणप्रत्ययस्येति । न तु कनो लुक्, वाग्रहणानर्थक्यप्रसन्नात् । पञ्चम पञ्चमकमित्यादिरूपं हि तेन साध्यम् । तच महाविभाषाधिकारादिकल्पेन कन उत्पत्त्यापि सिद्धमेव, तस्मात्पूरणप्रत्ययस्यैव लुक्सूत्रकारस्याभिमत इति म्बाचष्टे