________________
५६६ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीयद्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः । 'तावतिथेन गृहातीति कन्वक्तव्यो नित्यं च लुक्' ( वा ३१७२ ) । षष्ठेन रूप ण गृह्णाति षटको देवदत्तः । पञ्चकः । १८७८ स एषां ग्रामणीः । (५-२-७८) देवदत्तो मुख्य एषां देवदत्तकाः । स्वत्काः । मस्काः । १८७६ जालमस्य बन्धनं करभे । (५-२-७६) शृङ्खलकः करभः । १८८० उत्क उन्मनाः । (५-२-८०) उद्गतमनस्कवृत्तेरुच्छन्दात्स्वार्थे कन् । उक उस्कण्ठितः । १८८१ कालप्रयोजनारोगे । (५-२-८१) कालवचनात्प्रयोजनवचनाच कन् स्याद्रोगे । द्वितीयेऽहनि भवो द्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं 'षष्ठेन गृह्णाति षट्क' इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्लिरिति सूचितम् । इतिना लोकानुसारित्वं गम्यते । एक च प्रन्थविषयकमेव ग्रहणमिह फलति । तेन द्वितीयं ग्रहणं देवदत्तेन दण्डस्येत्यादौ न भवति । तावति. थेनेति । ग्रहणेऽर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षटको देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात् पूरणप्रत्ययस्यैव लुगिति गम्यते, न तु तदन्तस्य । स एषां ग्रामणीः । प्रामणीविशेषवाचकात् शब्दात्प्रथमान्ताद् अस्येत्यर्थ कन् स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् । 'ग्रामणी पिते पुंसि श्रेष्ट ग्रामाधिपे त्रिषु' इत्यमरः । त्वत्का मत्का इति । त्वमहं वा मुख्य एषामिति विप्रहः । 'प्रत्ययोत्तरपदयोश्च इति त्वमौ । शृङ्खलमस्य । करभ इति षष्ठयर्थे सप्तमी । बन्धनमिति करणे ल्युट् । अस्य करभस्य शृङ्खतं बन्धनमिति विग्रहे बन्धनविशेषणात् शृङ्खलशब्दात् प्रथमान्ताद् अस्य करभस्येत्यर्थे कन् स्यादित्यर्थः । शृङ्गालकः करभ इति । शृङ्खलेन बद्ध इति यावत् । करभो बाल उष्ट्रः । उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्ठितवृत्तेरित्यर्थः कालप्रयोजनाद्रोगे । काल, प्रयोजन अनयोः समाहारद्वन्द्वः, तदाह कालवचनात् प्रयो. जनवचनाचेति । यथोचितविभक्त्यन्तादिति शेषः । कालशब्देनात्र कालवृत्तिः पूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्यते, न तु मासादिशब्दः, व्याख्यानात् । तदाह द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटि प्रयोजनं साधनम् । द्विकमिति । वार्तिककारस्तु कन एव लुगिति व्याख्यामभिप्रेत्य 'तावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं विभाषाग्रहणात्' इत्याह । तन्मते द्वितीयकं द्वितीयमित्येव रूपं न तु द्विकमिति बोध्यम् । तावतिथेनेति । पूरणप्रत्ययान्ताद् ग्रहणोपाधिकात् स्वार्थे विधीयमानो प्रहीतरि न प्राप्नोतीति वचनमिति केयटः। स एषां ग्रामणीः । 'प्रामणी पिते पुंसि श्रेष्ठ प्रामाधिपे त्रिषु' इत्यमरः । करभ रति । उष्ट्रवालकः ।