________________
प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६७ वा । विषपुष्पैजेनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । 'रोगे' किम्द्वितीयो दिवसोऽस्य । १८८२ तदस्मिन्नन्नं प्राये संज्ञायाम् । (५-२-८२) प्रथमान्तास्सप्तम्यर्थे कन्स्यायप्रथमान्तमचंचेयायविषयं तत् । गुडापूपाः प्रायेगा. अमस्यां गुडापूपिका पौर्णमासी । 'वटकेम्म इनिर्वाच्यः' (वा ३१८९) वटकिनी। १८८३ कुल्माषाद । (५-२-८३) कुल्माषाः प्रायेणाबमस्या कोक्माषी। १८८४ श्रोत्रियंश्छन्दोऽधीते । (५-२-८४) श्रोत्रियः। 'वा' इत्यनुवृत्तेरवान्दसः । १८८५ श्राद्धमनेन भुक्तमिनिठनौ । (५-२-८५) श्रादी, कर्मणि ल्युटि तु फलम् । तदाह प्रयोजनं कारणं रोगस्य फलं वेति । तदस्मिन्नन्नम् । प्रथमान्तादनवाचकाद् अस्मिनित्यर्थे कन् स्याद् अमस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः। वटकेभ्य इति । संज्ञायामित्येव । वटकिनीति। बटकार प्रायेण अन्नमस्यां पौर्णमास्यामिति विग्रहः । कुल्माषादम् । कनोऽपवादः । 'स्याद्यावकस्तु कुल्माषः चणको हरिमन्थकः' इत्यमरः। श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दाद् अधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते। अध्येत्रणोऽपवादः। वेत्यनुवृत्तेरिति । 'तावतिथम्' इति सूत्रान्मण्डूकप्लुत्येति शेषः । ततश्च घनभावे अध्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् । श्राद्धमनेन । प्रथमान्तात् श्रादशब्दाद् भुक्तमनेनेत्यर्थे इनिठनौ द्वितीयेऽहनीति । यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यर्वप्रकरणादिना वृत्तिविषये काले वर्तत इति भावः । ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेत् । अत्राहु:-उत्तरसूत्रस्थ. संज्ञापकर्षणाच्छब्दखाभाव्याद्वा तद्वोध्यमिति । वटकेभ्य इति । कनि प्राप्ते बचनम् । ननु संज्ञाग्रहणात्कन्न भविष्यतीति चेत् । किं ततः? इनेरप्राप्तत्वात्तदर्थ बचनमगीकार्यमेव । 'अत इनिठनौ' इत्येव कथंचिदिनिः सिध्यतीत्याशात्र व कार्या । 'सप्तम्या च न तो स्मृतौ' इति वचनात् । श्रोत्रियं । यश्छन्दोऽधीते स श्रोत्रियो भवति । अत्र भाष्ये 'छन्दोऽधीते इत्यस्य वाक्यस्यायें श्रोत्रियनित्येतत्पदं निपात्यते' इति बाक्यार्थे पदवचनपक्षः । छन्दसो वा श्रोत्रभावो निपात्यते तदधीत इत्येतस्मिन] पश्च प्रत्ययः' इति पक्षान्तरं च स्थितम् । व्याख्यातं च कैयटेन 'वाक्यार्थस्य संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात् । श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्यायी अभिधीयत इति । एको शाखामधीत्व श्रोत्रियो भवतीति धर्मशास्त्रम् । त्यनुवृत्तेरिति । 'तावतियं ग्रहणमिति लुग्वा' इत्यतः । श्राद्धमनेन । श्रद्धास्मिन्नस्त्रीति श्राद्धम् । 'प्रज्ञाश्रदार्चाभ्यो णः' । यद्यपि